कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणकार्यशालायाः सफलसमापनम्
नलबारी, २५ अक्टूबरः २०२५ (असमप्रदेशः) –
अस्मिन् सप्ताहे कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये एकः विशेषः प्रशिक्षणकार्यक्रमः सम्पन्नः, यः “द्विदिवसीयबालकेन्द्रशिक्षकप्रशिक्षणकार्यशाला” इति नाम्ना प्रसिद्धः जातः। एषा कार्यशाला केन्द्रीयसंस्कृतविश्वविद्यालयस्य (नवदेहली) साहाय्येन, सर्वदर्शनविभागस्य संस्कृतविकासकेन्द्रस्य च संयुक्ततत्त्वावधानेन २४–२५ अक्टूबर २०२५ तमे दिवसद्वये समायोजिता। अस्य आयोजनस्य प्रमुखोद्देश्यं देशस्य नैकस्थानादागतानां संस्कृतशिक्षकानाम्, शोधार्थिनाम्, बालशिक्षणसंबद्धानां च प्रशिक्षणं दत्वा, बालकेन्द्रप्रणालीम् अधिकतया सजीवां प्रयोगशीलां च कर्तुं प्रेरयितुम् आसीत्।
अद्य कार्यशालायाः द्वितीयदिवसे आखिलभारतीयबालकेन्द्रस्य मुख्योपद्रष्टा आदरणीयः डॉ वेङ्कटरमणमूर्तिमहोदयः प्रमुखशिक्षकरूपेण उपस्थितः आसीत्। तेन बालकेन्द्रचालनस्य व्यवहारिकदृष्टिकोणात् अत्यन्तं उपयोगिनः बिन्दवः प्रस्तूताः। तेन शिक्षणं केवलं पाठ्यसामग्रीपर्यन्तं न स्यात्, अपि तु बालकानां स्वभावानुसारम्, क्रीडारूपेण अभिनयेन च सम्प्रेषणीयम् इति उपदिष्टम्। सः “एषः, सः, एतत्, तत्” इत्यादिशब्दानां शिक्षणप्रक्रियाम् अभिनयसहितं प्रदर्शितवान्, येन सर्वे प्रशिक्षणार्थिनः अत्यन्तम् आनन्दिताः आसन्।
भाषाक्रीडायाः, संख्याक्रीडायाश्च प्रयोगं सजीवदृष्टान्तैः सह प्रदर्श्य महोदयेन तदुपयोगिता सर्वेभ्यः प्रतिपादिता। तेन उक्तं यत् बालकानां शिक्षणं यदा क्रीडारूपेण क्रियते, तदा तेषां मनोविकासः भवति।
तथैव आन्ध्रप्रदेशप्रान्तस्य बालकेन्द्रप्रमुखा मान्या अरुणाश्रीमहोदया अपि प्रशिक्षणस्य किञ्चन विशिष्टं सत्रं नीतवती। सा बालकानां मानसिकविकासे कथा-वाचनस्य भूमिका, तथा संस्कृतगीतानां रसानुभूतिः इत्यादीनां विषयेषु प्रेरकं भाषणं कृतवती।
अन्ते समापनसमारोहः अपि विशेषरीत्या आयोजितः। विभागाध्यक्षः डॉ रणजीतकुमारतिवारीमहोदयः समापनसत्रे पुनः सर्वान् अभिनन्द्य प्रशिक्षणार्थिनाम् उत्साहं प्रशंसाम् अकरोत्। सः अवदत् यत् अस्याः कार्यशालायाः माध्यमेन न केवलं शिक्षणकौशलं अपि तु संस्कृतभाषायाः नवजीवनप्रदानाय मार्गः उद्घाटितः।
अस्मिन् अवसरे नानाप्रान्तेभ्यः आगताः अध्यापकाः, शोधार्थिनः, छात्राश्च सुसंख्येन सहभागिनः आसन्। सर्वे अपि कार्यशालायाः आयोजनं प्रशिक्षणपद्धतिं च उच्चस्तरेण प्रशंसितवन्तः।
कार्यक्रमस्य संचालनं विभागीयसहायिका आचार्या सुश्री लोपामुद्रा गोस्वामिमहोदया अत्यन्तं सुन्दररूपेण कृतवती। सा सर्वसत्राणि अतीव सम्यक्तया संयोज्य, अतिथीनाम् आदरं च अतिशयेन कुशलतया समपादयत्। अन्ते धन्यवादप्रस्तुतिः विभागीयातिथ्याध्यापिकया सुश्रीमयूरी बरकाकतिमहोदयया भावपूर्णेन भाषणेनैव कृता।
कार्यक्रमस्य समापनं शान्तिमन्त्रपाठेन मंगलपूर्वकं सम्पन्नम्। सर्वे उपस्थिताः अध्यापकाः, छात्राः, प्रशिक्षणार्थिनश्च हर्षोल्लासेन परिपूर्णाः अभवन्।
एवं कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये समायोजिता एषा द्विदिवसीया बालकेन्द्रशिक्षकप्रशिक्षणकार्यशाला न केवलं सफलतया परिसमाप्ता, अपि तु संस्कृतशिक्षणक्षेत्रे नूतनप्रेरणारूपेण आभारते प्रसिद्धा अभवत्।
