हमीरपुरजनपदस्य भोरञ्जस्य सम्मु ग्रामे न आचर्यते दिवाली, शापम् अस्ति कारणम्
यदि दीवाली-उत्सवं कर्तुं प्रयतन्ते तर्हि…..
हिमसंस्कृतवार्ता: – हमीरपुरम्।
देशे राज्ये च यत्र दिवाली महता उत्साहेन आचर्यते, तत्र हमीरपुरमण्डलस्य भोरञ्जपञ्चायतस्य सम्मूग्रामे जनाः शतशः वर्षाणि यावत् दिवाली-उत्सवं न आचरन्ति। दीपावल्यां कस्मिन् अपि गृहे पक्वान्नं न निर्मीयते, आस्फोटका: वा प्रज्वलिताः न भवन्ति। मुख्यालयात् प्रायः २५ किलोमीटर् दूरे स्थिते सम्मु ग्रामे शतशः वर्षाणि शापस्य अधीनाः जनाः दीपावली-उत्सवात् निवृत्ताः सन्ति । ग्रामजनानां मते दिवालीरात्रौ दीपाः प्रज्वलिताः भवन्ति, परन्तु यदि कश्चन परिवारः यदृच्छया आस्फोटकान् दहति, गृहे पक्वान्नं च सज्जीकरोति तर्हि ग्रामस्य कृते आपद: त्रासः भवति। दिवाली-दिने रात्रौ जनाः स्वगृहात् अपि न निर्गच्छन्ति ।
का अस्ति मान्यता ?
मान्यतानुसारम् अस्मिन् दिने ग्रामस्य एका महिला भर्त्रा सह सतीम् अकरोत् । सा दिवाली-उत्सवस्य कृते मातापितृगृहं गन्तुं प्रस्थिता आसीत् । तस्याः पतिः राज्ञः सेनायाः सैनिकः आसीत् । तस्याः पतिः युद्धकाले मृतः । यदा सा महिला ग्रामात् किञ्चित् दूरं गच्छति स्म तदा ग्रामजना: तस्याः भर्तुः शरीरं, वस्तूनि च वहन्ति स्म । सा गर्भवती भर्तुः मृत्योः आघातं सोढुम् असमर्था आसीत्, सा भर्त्रा सह सतीं कृतवती। प्रयाणकाले सा सम्पूर्णं ग्रामं शापं दत्तवती यत् ते कदापि दिवाली-उत्सवम् आयोजयितुं न शक्ष्यन्ति इति । तस्मात् दिवसात् प्रभृति अस्मिन् ग्रामे दीपावली न आचर्यते ।
सती-प्रतिमा पूज्यते
दीपावल्यां जनाः केवलं सतीमूर्तिं पूजयन्ति। सम्मुग्रामस्य कमला, सरिता, बीना, सन्तोष-आदय: महिलाः अवदन् यत् यदा ता: ग्रामे विवाहं कृत्वा आगतवत्य: तदा ता: ग्रामे कदापि दीपावलीं न आचरितवत्य: अन्यस्य अपि उत्सवं न दृष्टवत्य:।
ग्रामपंचायतस्य भोरञ्जस्य प्रधान पूजा देवी अकथयत् यत् शापस्य कारणात् ग्रामे १०० परिवाराः दीपावलीं न आचरन्ति । ग्रामजनाः ग्रामात् बहिः निवसन्ति चेदपि सतीशापः तान् व्यापादयति एव। एकं कुटुम्बं ग्रामात् बहिः दूरं न्वसत्। यदा सा दीपावल्याः कृते स्थानीयव्यञ्जनानि सज्जीकर्तुं प्रयत्नं कृतवान् । तदा तस्य गृहे सहसा अग्निः प्रज्वलितः । ग्रामजनाः केवलं सतीं पूजयन्ति, तस्याः पुरतः दीपं प्रज्वालयन्ति च।
