गीर्वाण वाण्या: अभ्यासक्रमाणि इदानीं अभियांत्रिकी महाविद्यालयेषु उपलभ्यन्ते
सेण्ट् विन्सेन्ट पलोटी अभियांत्रिकी प्रौद्योगिकी महाविद्यालयेन सह सामंजस्यम् !
वार्ताहर: – जगदीश डाभी
महाराष्ट्रम् ।
संस्कृतभाषायाः भारतीयसंस्कृतेः च प्रचारप्रसाराय निर्मितः गीर्वाण वाणी इति वणी नगरस्थ लोकमान्य-तिलक-महाविद्यालयस्य संस्कृतविभागप्रमुखस्य विद्यावाचस्पति: प्रा.स्वानन्द गजानन पुण्डस्य प्रयत्नानाम् आधारेण राष्ट्रिय शैक्षणिक संसाधन स्वयम् आधारितं नीतिशतकम्, भारतीयस्वयं शिक्षा च अधुना सेण्ट् विन्सेन्ट् पल्लोट्टी अभियांत्रिकी-प्रौद्योगिकी महाविद्यालयस्य छात्राणां कृते उपलभ्यते।
महाराष्ट्रराज्यस्य नागपूर नगरस्थित सेंट विन्सेंट पलोटी महाविद्यालयस्य निदेशकस्य फादर डॉ. पौलचन्द्रकुनेलस्य मार्गदर्शनेन महाविद्यालयस्य प्राचार्यः डॉ. विजय वाढई इत्यनेन अस्मिन् ज्ञापनपत्रे हस्ताक्षरं कृतम्। लोकमान्य तिलक महाविद्यालयस्य प्राचार्य डॉ. प्रसाद खानजोडे महोदयस्य कृते डॉ . स्वानंद पुंड स्वाक्षरी कृतवान् | संगणक विज्ञान विज्ञान तथा अभियांत्रिकी विभागस्य प्रमुखः डॉ. मनोज ब्रह्मे इत्यनेन विशेषरुचिः प्रदर्शिता, अस्मिन् ज्ञापनपत्रे हस्ताक्षरं कर्तुं अतीव महत्त्वपूर्णा भूमिका निर्वहिता च ।
अस्मिन् अवसरे विभागस्य शैक्षणिककार्याणां समन्वयिका डॉ. कोमल गेहनी अपि उपस्थिता आसीत् ।
लोकमान्यतिलकमहाविद्यालयेन निर्मितपाठ्यक्रमाणां विचारणं, विशेषज्ञानां प्राध्यापकानां परस्परसहकार्यद्वारा उभयमहाविद्यालयेषु संगोष्ठीनां कक्षाणां च संचालनं, राष्ट्रीय-अन्तर्राष्ट्रीय-सम्मेलनेषु सहकार्यं च इत्यादीनां विविधपक्षेषु एतत् ज्ञापनपत्रं सम्पन्नम् अस्ति |
एते पूर्णतया ऑनलाइन तथा पूर्णतया निःशुल्का: पाठ्यक्रमा: आगामिसत्रात् छात्राणां कृते उपलभ्यते, तथा च भविष्ये भारतीयज्ञानपरम्परायाः विषये विविधाः पाठ्यक्रमाः निर्मातुं कार्यान्वितुं च बलं दत्तम् अस्ति।
विभिन्नविश्वविद्यालयैः महाविद्यालयैःच सह सामञ्जस्येन बहव: तात्या: लाभं प्राप्तवन्त: तथाच विश्वस्य सहस्रशः संस्कृतप्रेमिन च | अधुना अभियांत्रिकीमहाविद्यालये एतानि अभ्यासक्रमाणि आरभ्यते, यत् निश्चयेन सर्वेषां संस्कृतप्रेमिणां कृते महता आनन्दस्य, गौरवस्य च विषयः अस्ति।
