भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना
द्विदिवसीया शब्दनिर्माणकार्यशाला
भारतीयभाषासमित्या प्रायोजिता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयेन चायोजिता द्विदिवसीया शब्दनिर्माणकार्यशाला सम्पन्ना । तस्यां कार्यशालायां भारतराष्ट्रस्य नाना प्रदेशेभ्यः प्रतिभागिनः प्रतिभागं कृतवन्तः । तेषु प्रायः आध्यापकाः, शोधच्छात्राश्चासन् । कार्यक्रमे वक्तृरूपेण प्रोफेसर वी. सुब्रह्मण्य विरिविण्टी, निदेशकः, वैदिकसंशोधनमण्डलम् , पुने, डॉ. प्रियव्रतमिश्रः, सहाचार्यः, काशीहिन्दूविश्वविद्यालयः, वाराणसी, डॉ. भवशर्मा, सहाचार्यः, डेक्कन काँलेज, पुने, डॉ. उमामहेश्वरः एन्., बेङ्गलूर, कर्नाटकतः, डॉ. रुणिमाशर्मा, भट्टदेवविश्वविद्यालयः, बाजाली इत्यतः विद्वांसः समुपस्थिताः आसन् । अतीवगभीरसाधनापद्धतिमधिकृत्य ते स्वकीयमनुभवनं स्वाध्यायप्रतिकृतिं च प्रदर्शितवन्तः । कार्यक्रमस्योद्धाटनसत्रे कुमारभास्करवर्मसंस्कृतविश्वविद्यालयस्य कुलपतयः प्रोफेसर प्रह्लाद रा. जोशीवर्याः, कुलसचिवाः डॉ. विकासभार्गवशर्ममहाभागाः, शैक्षणिककुलसचिवाः प्रोफेसर ज्योतिराजपाठकमहाभागाः, विशिष्टातिथिरूपेण प्रोफेसर वी. सुब्रह्मण्यमहाभागाः, परीक्षानियन्त्रकाः डॉ. रणजीतकुमारतिवारीमहाभागाः, तथा च अन्ये विभागीयाः अध्यापकाः अध्यापिकाः, छात्राः, शोधच्छात्राश्च समुपस्थिताः आसन् । कुलपतिभिः प्रोक्तं आत्मसम्मानं स्वभाषायाः संरक्षणे, स्वसंस्कृतेः परिपालने एव विद्यते । अस्माकं या भाषां संस्कृतभाषा सा सर्वासामपि भाषाणां जननी एव । तस्याः भाषायाः उच्चारणे स्वयमेव पुण्यता आगच्छति । अन्याः भाषाः अर्थमात्रबोधिका न तु पुण्यजनिका इति ।
कार्यक्रमार्थं कल्पिताः समितिसदस्याः डॉ. सुधाकरमिश्रः (कार्यक्रमाह्वायकः), डॉ. कमललोचनआत्रेयः, (कार्यक्रमसंयोजकः) डॉ. बर्णाली बरठाकुरः डॉ. मैत्रेयीगोस्वामी, संयोजिके, तथा च सदस्यरूपेण डॉ.गुणीन् शाइकीया, श्रीमान् विवेकाचार्यः, सुश्री लोपामुद्रा गोस्वामी च आसन् । कार्यक्रमस्य मूलमुद्देश्यं भारतीयभाषामधिकृत्य एव भारतीयाः आत्मानं वर्धयन्त्विति । तदर्थमेवान्यासु भाषासु प्रचलिताः, प्रसिद्धाश्च ये आधुनिकाः शब्दाः तेषां कथं संस्कृतनिष्ठतां आयान्तु, तदर्थं का का प्रक्रिया, के के सिद्धान्ताः, काश्च काश्च कठिनताः राजन्ते तेषां सर्वेषां कथं विधिमुखेन, निषेधमुखेन वा प्रवृत्तिः स्यात् । तदर्थं सर्वेपि विद्वांसः प्रयत्नं कृतवन्तः । आहत्य अष्टौ सत्राणि आसन् । तानि सर्वाण्यपि अतीवविशिष्टानीति । समापनसत्रे सञ्चालनं सुश्रीलोपामुद्राकृतवती । विशिष्टं भाषणं डॉ. रणजीतकुमारतिवारीमहाभागाः दत्तवन्तः । पुनः अनुभवकथनं गौहातिविश्वविद्यालस्य सुश्रीसंगीतभट्टाचार्या, तथा च असमविश्वविद्यालयस्य सुप्रिया चौबे च कथिवत्यौ । सर्वेषां कृते प्रमाणपत्रप्रदानं जातम् । अन्ते धन्यवादज्ञापनं डॉ. सुधाकरमिश्रः अददत् । अस्य कार्यक्रमस्य प्रेरकाः भारतीयभाषासमितेः सह शैक्षणिकसंयोजकाः डॉ. के. गिरिधररावमहाभागा असान् । तेभ्यः भूरिशः धन्यवादाः अर्प्यन्ते । इतः प्रतिभागिनः अतीव प्रसन्नमुद्रया संस्कृतभाषायाः विकासाय संकल्पं नीत्वा गतवन्तः ।
