Atal Super Special Hospital Shimla – २३ वर्षपूर्वं बालिकया कवलितं नाणकम्; चमियानाचिकित्सालयस्य वैद्याः शल्यक्रियया निष्कासितवन्त:
हिमसंस्कृतवार्ता:- शिमला।
शिमलानगरस्य चमियाना सुपरस्पेशियलिटी- चिकित्सालये जटिलां शल्यक्रियां कुर्वन्तः वैद्याः २३ वर्षपूर्वं कवलितं नाणकं खाद्यनलिकातः निष्कासितवन्तः। २३ वर्षपूर्वं एकया बालिकया यदृच्छया एकं नाणकं कवलितमासीत्। तस्याः अन्ननलिकायां वर्षाणि यावत् नाणकम् अटत्। बुभुक्षाक्षयस्य समस्यया सा चमियाणा चिकित्सालयम् आगता ।
वैद्यदलेन जटिलशल्यक्रियाद्वारा नाणकं सफलतया निष्कासितम्। अटल- इन्स्टिट्यूट- ऑफ मेडिकल सुपरस्पेशियलिटी, चमियाणा इत्यस्य जठरांत्रविज्ञानविभागेन डॉ. बृज शर्मा, डॉ. राजेश: शर्मा, डॉ. विशालबोध:, डॉ. आशीषचौहान: इत्यनेन सह शल्यक्रिया कृता। शल्यक्रिया एतावता जटिला आसीत् यत् पूर्वं अनेकेषु चिकित्सालयेषु कृताः प्रयासाः असफलाः अभवन्। समाचारानुसारं २३ वर्षीयायाः बालिका किञ्चित्कालात् बुभुक्षाया: हानिः, निगरणे कष्टस्य च सम्मुखीकरणं कुर्वती आसीत्। परीक्षणे वैद्याः अवगतवन्तः यत् बाल्ये एव कवलितं नाणकं तस्या: अन्ननलिकायां अटत्। शुक्रवासरे वैद्याः अन्तःदर्शनप्रविधिना शल्यक्रियाम् अकुर्लु, नाणकं सावधानीपूर्वकं निष्कासयितुं सफलाः च अभवन्। अधुना सा युवती सम्पूर्णतया स्वस्था अस्ति, वैद्यानां निरीक्षणे कतिपयान् दिनानि यावत् प्रवेशिता अस्ति। डॉ. बृजशर्मा इत्यनेन उक्तं यत् एतद् प्रकरणम् अत्यन्तम् आह्वानपूर्णमासीत् यतोहि मुद्राः अन्ननलिकायां चिरकालात् निरुद्धा, यस्य कारणेन परितः ऊतकाः कठोरताम् अवाप्तवन्तः। परन्तु जठरान्त्रविज्ञानदलेन धैर्येन निपुणतया च शल्यक्रिया कृता। चिकित्सालयप्रबन्धनेन वैद्यानाम् एतां सफलतां चमियाणा-चिकित्सादलस्य प्रमुखा उपलब्धिः इति वर्णितम् अस्ति।
