मुख्यमंत्री सुक्खुः राजीवगान्धी- स्वरोजगार- प्रारंभयोजनाया: (RGSSY) अन्तर्गतम् ई- टैक्सी-यानानि हरितध्वजं प्रदर्श्य प्रेषितवान्
हिमसंस्कृतवार्ता: – शिमला।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः बुधवासरे स्वस्य आधिकारिकनिवासस्थानात् ओक ओवरतः राजीवगान्धी- स्वरोजगारप्रारम्भयोजनायाः अन्तर्गतं १८ ई-टैक्सीयानानि हरित्ध्वजं प्रदर्श्य प्रेषितवान्। शिमलामण्डलस्य चतुर्भ्य: युवभ्य:, कांगड़ा- किन्नौर- मण्डलयो: त्रिभ्य:, चम्बा- कुल्लू- सोलन- मण्डलानां च द्वाभ्यां, हमीरपुर- सिरमौर- मण्डलयो: एकैकस्य कृते ई-टैक्सी-यानानि प्रदत्तानि एतेषां टैक्सी-क्रयणार्थं राज्यसर्वकारेण ₹१.२८ कोटिरूप्यकाणाम् अनुदानं प्रदत्तम्। अस्याः योजनायाः अन्तर्गतं राज्यसर्वकारः ई- टैक्सी- क्रयणार्थं युवभ्यः ५० प्रतिशतम् अनुदानं प्रददाति, अधुना यावत् राज्ये ७९ पात्रयुवकानां कृते ₹५.६४ कोटिरूप्यकाणां वितरणं कृतम् अस्ति।
अस्मिन्नवसरे वदन् मुख्यमन्त्री अवदत् यत् एतेन न केवलं युनां कृते लाभप्रदाः स्वरोजगारस्य अवसराः प्राप्यन्ते, अपि तु एतानि ई-टैक्सी-वाहनानि सर्वकारीयविभागैः निगमैः च सह सम्बद्ध्य पञ्चवर्षपर्यन्तम् आयं सुनिश्चितं भविष्यति, यत्र द्विवर्षीयविस्तारस्य प्रावधानं भवति। सः अपि अवदत् यत् एतेन राज्यस्य आर्थिकभारे महती न्यूनता भवति। वर्तमानवित्तवर्षे एतावता ई- टैक्सीक्रयणार्थं ४० पात्रयुवकानां कृते ₹२.७२ कोटिरूप्यकाणाम् अनुदानं सर्वकारेण प्रदत्तम् अस्ति। सः अवदत् यत् वर्तमानवित्तवर्षे राज्ये विद्युत्वाहनानां क्रयणार्थं सर्वकारेण ₹६६.४१ कोटिरूप्यकाणि विनियोजितानि सन्ति। राज्यसर्वकारः राज्यस्य पर्यावरणस्य रक्षणाय प्रतिबद्धः अस्ति, ई-वाहनानां प्रचारः हिमाचलप्रदेशं देशस्य हरित ऊर्जाराज्यं कर्तुं महत्त्वपूर्णं सोपानम् अस्ति।
