Rahul Gandhi in Shimla- शिमलां प्राप्त: राहुलगान्धी, मन्त्रिणौ धनीरामशाण्डिलः, विक्रमादित्यसिंहः च स्वागतं कृतवन्तौ
हिमसंस्कृतवार्ता:- शिमला।
काङ्ग्रेसनेता सांसदः च राहुलगान्धी शिमलानगरम् आगतः। तस्य समूह: शिमलानगरस्य संजौलीतः अपराह्णे १:५० वादने छराबड़ां प्रति प्रस्थित:। राहुलगान्धी चक्रविउ चण्डीगढतः शिमलानगरस्य अन्नाडेलप्राङ्गणं प्रति यात्रां कृतवान्। ततः सः मार्गेण छराबड़ां गतवान्। अन्नाडेले स्वास्थ्यमन्त्री धनीराम शाण्डिलः लोकनिर्माणमन्त्री विक्रमादित्यसिंहः राहुलगान्धिनः स्वागतं कृतवन्तौ। समाचारानुसारं प्रियङ्कागान्धिनः पतिः रोबर्ट वाड्रा अपि शिमलानगरम् आगन्तुं शक्नोति। सोनिया गान्धी प्रियंका गान्धी वाड्रा च त्रिदिनानि यावत् छराबड़ायां सन्ति। अद्य राहुलगान्धी अपि स्वमातुः भगिन्या च सह भवितुं छराबड़ाम् आगतः। राहुलगान्धी छराबड़ायां एकदिनद्वयं वा स्थातुं शक्नोति इति कथ्यते। सः हरियाणाराज्ये समयं व्यतीत्य मंगलवासरे प्रातःकाले शिमलानगरम् आगतः। परन्तु तस्य कृते कोऽपि आधिकारिकः कार्यक्रमः अन्तिमरूपेण न निर्धारितः।
