हिमाचलप्रदेशः – सोलने ४२ जनै: पूरितम् निजीबसयानं दुर्घटितम्, ११ महिलाः घातिताः; एम्स बिलासपुरे उपचाराधीना:
हिमसंस्कृतवार्ता:- सोलनम्।
रामशहरक्षेत्रस्य लोहारघाटपंचायतस्य चहलवानाग्रामे निजबसयानस्य पतनेन एकादश महिलाः घातिताः। घातितानां बिलासपुरस्य एम्स- चिकित्सालये प्रवेशः कृतः। तेषां स्थितिः संकटात् बहिः इति कथ्यते। बसयाने बिलासपुरस्य नम्होल् तहसीलस्य कोटलाग्रामस्य जना: उपविष्टा: आसन्। ते एकस्य बन्धुगृहे विवाहे भागं ग्रहीतुं निजीबसयानेन चहलवानाग्रामं गच्छन्ति स्म।
सूचनानुसारं बिलासपुरस्य कोटलाग्रामात् एचपी ६७-२८५४ इति निजीबसयानेन ४२ जनाः चहलवांना ग्रामं गच्छन्ति स्म। यदा बसयानं चहलवाना ग्रामस्य समीपं गच्छति स्म तदा चालकः बसं निरुद्धं कुर्वन् आसीत् तदा अकस्मात् बसयानं पतितम् यानस्य चक्राणि च उपरि आगतानि। बसयानस्य पतनमात्रेण चहलवाना ग्रामस्य निवासिनः एकत्रिताः भूत्वा आहतान् बसयानात् बहिः आकर्षितुम् आरब्धवन्तः। अधिकांशः जनाः वातायनै: पलायिताः। निजीबसयाने ४२ जनाः उपविष्टा: आसन्। ते चलहवानाग्रामस्य बालकिशनस्य गृहं प्रति अपि गच्छन्ति स्म । परन्तु तेषां तत्र प्राप्ते: पूर्वं बसयानं पतितम्। एकादश महिलाः घातिताः भूत्वा निजीवाहनैः बिलासपुरस्य एम्स-चिकित्सालये चिकित्सायै प्रेषिताः।
