६८ तमस्य राष्ट्रमण्डलसंसदीयसम्मेलनस्य आरम्भः, यत्र ओमबिरला इत्यनेन साकं कुलदीपपठानिया चापि सम्मिलित:
हिमसंस्कृतवार्ता: – शिमला।
बारबाडोसस्य- राजधानी- ब्रिजटाउननगरे ६८ तमस्य राष्ट्रमण्डल-संसदीय-सम्मेलनस्य आरम्भः अभवत्। राष्ट्रमण्डलसंसदीयसम्मेलनस्य कार्यकारिणीसमित्या, बारबाडोस-संसदेन च संयुक्तरूपेण अस्य आयोजनं क्रियते। सम्मेलने ५६ देशेभ्यः प्रतिनिधय: सम्मिलिता: तत्रैव भारतीयप्रतिनिधिमण्डले राष्ट्रमण्डलसंसदीयसङ्घस्य भारतक्षेत्रस्य अध्यक्षः ओम बिरला, हिमाचलप्रदेश- विधानसभायाः अध्यक्षः कुलदीपसिंहपठानिया इत्यस्य च सहभागिता वर्तते। अनेनैव विभिन्नानां भारतीयराज्यानां विधायिकानां पीठासीनाधिकारिण: उपपीठासीनपदाधिकारिणः अपि भागं गृहीतवन्तः। अक्तूबरमासस्य ८ दिनाङ्कात् १३ दिनाङ्कपर्यन्तम् आयोज्य बारबाडोस-संसदस्य सर्वा: औपचारिकता: सम्पन्नं कृत्वा सम्मेलनस्य आरम्भः अभवत्। उद्घाटनानन्तरं सर्वै: भारतीयप्रतिनिधिभि: बारबाडोस-संसदस्य मुख्यद्वारे समूहचित्रार्थम् एकत्रिताः अभवन्। विधानसभाध्यक्ष: कुलदीपसिंहपठानिया अवदत् यत् राष्ट्रमण्डले ५६ सदस्यदेशा: सम्मिलिता: सन्ति ये ब्रिटिशसाम्राज्यात् उद्भूताः सन्ति तथा च लोकतन्त्रं, शान्तिः, विकासः इत्यादीनां मूल्यानां सहभागितां कुर्वन्ति। सः अवदत् यत् एषः राष्ट्राणां स्वैच्छिकः संघः अस्ति यस्मिन् उन्नत-अर्थव्यवस्थाः, लघुद्वीपराष्ट्राणि च समाविष्टाः विविधाः देशाः सन्ति। पठानिया इत्यनेन उक्तं यत् राष्ट्रमण्डलं ५६ स्वतन्त्रराष्ट्रानां संघः अस्ति यः स्वसदस्यानां मध्ये सहकार्यं प्रवर्धयति। अस्य मूलं ब्रिटिशसाम्राज्ये अस्ति, परन्तु अद्यत्वे कोऽपि देशः राष्ट्रमण्डले सम्मिलितुं शक्नोति। राष्ट्रमण्डले अफ्रीका, एशिया, कैरिबियन, यूरोप, प्रशान्तक्षेत्रस्य च देशाः सन्ति। सम्प्रति अस्मिन् संघे उन्नता: अर्थव्यवस्थाः विकासशीलदेशाः च सन्ति। कुलदीपसिंह पठानिया शुक्रवासरे बारबाडोस संसदि भारतीयप्रतिनिधिरूपेण प्रथमं सम्बोधनं करिष्यति। सः सम्मेलनाय चयनितविषयत्रयान् भिन्नदिनेषु सम्बोधयिष्यति। पठानिया शुक्रवासरे ब्रिजटाउननगरे बारबाडोस- संसदं “लोकतन्त्रस्य समर्थनार्थम् अस्माकं संस्थानां सुदृढीकरणम्” इति विषये सम्बोधयिष्यति। सम्मेलने हिमाचलप्रदेशस्य विधानसभाया: उपाध्यक्ष: विनयकुमारः, विधानसभासचिवः यशपालशर्मा च अपि उपस्थिताः भविष्यन्ति।
