बिलासपुर-बसदुर्घटना – उपालम्भानां प्राप्ते सत्यपि लोकनिर्माणविभागेन कार्यम् किमर्थं न कृतम् – जयरामठाकुरः
हिमसंस्कृतवार्ता: – बिलासपुरम्।
पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः बुधवासरे बरठीं-भल्लू बसदुर्घटनास्थलं गत्वा राहत-उद्धार-कार्यक्रमस्य समीक्षां कृतवान्। सः स्थले एव नियोजितानां कर्मचारिणां स्थितिं पृच्छन् बरठीं नागरिकचिकित्सालये मृतानां परिवारैः सह मिलित्वा शोकं प्रकटितवान्। पश्चात् सः मृतानां कतिपयानां अन्त्येष्टि-संस्कारे अपि भागं गृहीतवान्। सः अवदत् यत् स्थानीयनिवासिनः पूर्वं लोकनिर्माणविभागे अस्य संकटपूर्णस्थानस्य विषये उपालम्भं कर्तुं प्रवृत्ताः आसन्, परन्तु विभागेन किमपि कार्यं न कृतम्।
यदि समये एव कार्यम् कृतं स्यात् तर्हि एषा दुःखदः दुर्घटना निवारयितुं शक्यते स्म । सः सम्पूर्णघटनायाः अन्वेषणं कृत्वा एतादृशानां सर्वेषां संकटपूर्णानां स्थानानां तत्क्षणं पुनर्स्थापनं करणीयम् इति आग्रहं कृतवान् । वर्षर्तौ राज्यस्य प्राणानां सम्पत्तीनां च महती हानिः अभवत् इति विपक्षनेता अवदत्। अधुना सर्वकारेण सर्वेषां सम्भाव्य संकटपूर्णस्थानानां सर्वेक्षणं कृत्वा तेषां सुरक्षां सुनिश्चित्य भविष्ये एतादृशाः दुर्घटनानिवारयितुं आवश्यकम् अस्ति। सः दिवंगतानां प्राणानां शान्तिं, शोकग्रस्तपरिवारानाम् कृते अपि सामर्थ्यं च प्रदातुम् ईश्वरं प्रार्थितवान्, प्रशासनेन प्रभावितपरिवारेभ्यः तत्कालं अधिकतमं च सहायतां दातुं आग्रहं कृतवान्।
