जयपुरस्य सवाई-मान-सिंह-चिकित्सालये अग्निकाण्डस्य घटनायाः अन्वीक्षणाय षट्-सदस्यानां उच्च-स्तरीय समितेः ग्रन्थनम् ।
हिमसंस्कृतवार्ता: – जयपुरस्य सवाई-मान-सिंह-चिकित्सालये अग्निकाण्डस्य घटनायाः अन्वीक्षणाय चिकित्सा-शिक्षायुक्तस्य अध्यक्षतायां षट्-सदस्यानां उच्च-स्तरीय समितेः ग्रन्थनं कृतमस्ति। ध्यानास्पदं वर्तते यत् अस्यां घटनायां षट् जनानां मृत्युः जाता आसीत्। चिकित्सालयस्य द्वितीये भवनस्थे ट्रॉमा-आईसीयू इत्यत्र अग्निः समुत्थापितः यत्र एकादश-रुग्णाः चिकित्सारताः आसन्। ट्रॉमा सेंटर इत्यस्य प्रभारी डॉ. अनुराग धाकड़ः अकथयत् यत् शॉर्ट सर्किट इत्यनेन कारणेन अग्निकाण्डम् अभवत् तीव्रगत्या च अग्निप्रसरणेन विषाक्तवातिः निर्गता सर्वत्र प्रसरिता च।
मृतकानां परिवारेभ्यः प्रधानमन्त्रिणा स्वकीया सम्वेदना प्रकटिता ।
प्रधानमंत्रिणा नरेंद्रमोदिना अस्यां दुर्घटनायां जातेषु मृत्युषु दुःखः प्रकटितः अस्ति । एकस्मिन् सामाजिक-संदेशे, श्रीमोदी अकथयत् यत् अनया घटनया तेन अत्यन्तं दुःखम् अनुभूतम् अस्ति सहैव मृतकानां परिवारेभ्यः अपि प्रधानमन्त्रिणा स्वकीया सम्वेदना प्रकटिता अस्ति । राजस्थानस्य मुख्यमंत्री भजन-लाल-शर्मा व्रणितेभ्यः उचितं चिकित्सावौविध्यं प्रदातुम् आश्वासनं प्रायच्छत्। सवाई-मान-सिंह-चिकित्सालयस्य यात्रां विधाय अनन्तरं, मुख्यमंत्री एक्स इत्यत्र एकं संदेशं प्रकाशयन् अकथयत् यत् स्थितिः निरन्तरं अवलोक्यते ।
जयपुरस्य सवाई-मान-सिंह-चिकित्सालये अग्निकाण्डस्य घटनायाः अन्वीक्षणाय षट्-सदस्यानां उच्च-स्तरीय समितेः ग्रन्थनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
