केन्द्रीयमन्त्री शिवराजसिंहः चौहानः रूसस्य उपप्रधानमन्त्रिणा दिमित्री पत्रुशेवः इत्यनेन सह मिलितवान्
केन्द्रीयकृषि तथा कृषककल्याणमन्त्री शिवराजसिंहचौहानः नवीदिल्लीनगरे रूसस्य उपप्रधानमन्त्री दिमित्री पत्रुशेवेन सह मिलितवान्। कृषिक्षेत्रे खाद्यसुरक्षाक्षेत्रे च परस्परसहकार्यस्य विषये उभयोः मध्ये चर्चा अभवत् । एतेषु क्षेत्रेषु सहकार्यस्य वर्धनेन उभयदेशानां कृषकाणां, उपभोक्तृणां, नागरिकानां च लाभः भविष्यति । पश्चात् पत्रकारैः सह भाषमाणः केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अवदत् यत् भारतं रूसदेशं प्रति कीटरहितधान्यानां आलूनां च निर्यातं वर्धयितुं उत्सुकः अस्ति। मत्स्यपालनस्य, कुक्कुटनिर्यातस्य च सम्भावनायाः विषये अपि चर्चा कृता इति अपि सः अवदत् ।
केन्द्रीयमन्त्री शिवराजसिंहः चौहानः रूसस्य उपप्रधानमन्त्रिणा दिमित्री पत्रुशेवः इत्यनेन सह मिलितवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
