त्वं खलु जानासि
प्रेम्णि प्रपञ्चवत् महदिन्द्रजालं,
हृदयं न स्ववशे स्थितम्।
त्वं खलु जानासि ममान्तरङ्गं,
किमु जानासि न वा वद सुनेत्रे॥
गुञ्जति नित्यमुद्यानेषु भ्रमरः,
सुरभिषु विकसत्सु कुसुमेषु
त्वं खलु जानासि मम स्वनप्रवृत्तिं,
किमु जानासि न वा वद सुनेत्रे॥
चन्द्रनिशि भ्रमति चक्रवाकः
वनमध्यकुञ्जे कूजति कोकिलः।
त्वं खलु जानासि मम हृदयोद्गमं,
किमु जानासि न वा वद सुनेत्रे॥
श्रावणमेघसमागमे श्यामलताः
वारिधरा यदि शीतलतां ददति।
तथा मम कृते त्वं यदि भवेः
किमु जानासि न वा वद सुनेत्रे॥
– डॉ महिमा शुक्ला
प्रवक्ता संस्कृत
पीएम श्री राजकीय इण्टर काॅलेज
शाहजहांपुर ,
उत्तर प्रदेश।