प्रधानमन्त्री श्रीनरेन्द्रमोदी पाण्डुलिप्याः अङ्कीकरणस्य ज्ञानभारतम् पोर्टल् इति डिजिटलमञ्चस्य शुभारम्भ: कृतवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी नवदिल्लीनगरे ज्ञानभारतमित्यस्मिन् विषये अन्ताराष्ट्रियसम्मेलने सम्मिलितः। सः पाण्डुलिप्याः अङ्कीकरणस्य, संरक्षणस्य, जनपरिवेषणस्य च त्वरितरूपेण निष्पादनाय समर्पितं ज्ञानभारतम् पोर्टल् इति डिजिटलमञ्चस्य शुभारंभोपि कृतवान्, अथ अस्मिन् अवसरे सभामपि सम्बोधितवान्। अवधेयम्, यत् “पाण्डुलिपिपरम्परायाः माध्यमेन भारतस्य ज्ञानपरम्परायाः पुनः प्राप्तिः” इत्यस्मिन् विषये त्रिदिवसीयसम्मेलनस्य आरम्भः अभवत् ।
सम्मेलन-माध्यमेन, भारतस्य अप्रतिमपाण्डुलिपिसम्पदः पुनः सम्पुष्टीकरणस्य मार्गेषु विचारं कर्तुं, वैश्विकज्ञानसंवादस्य हृदये स्थापयितुं च, प्रमुखविद्वांसः, संरक्षणविदः, प्रौद्योगिकीविदः, नीतिविशेषज्ञाः च एकत्र आगताः सन्ति।
प्रधानमन्त्री श्रीनरेन्द्रमोदी पाण्डुलिप्याः अङ्कीकरणस्य ज्ञानभारतम् पोर्टल् इति डिजिटलमञ्चस्य शुभारम्भ: कृतवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
