गुर्जरराज्ये वेरावलप्रान्तस्य पालडी विद्यालयस्य शिक्षकस्य गीर सोमनाथजनपदस्य श्रेष्ठशिक्षकरुपेण सम्मानं जातम्
वार्ताहर: – जगदीश डाभी
वेरावलम् । प्राप्तवार्तानुसारं
शिक्षकदिवसोपलक्ष्ये आयोजिते शिक्षकसम्मानम् २०२५ इत्यमिन् कार्यक्रमे गुजरातस्य गीर सोमनाथजनपदस्य वेरावल प्रान्तस्य सर्वकारीय पालडी विद्यालयस्य शिक्षकश्री डॉ. मोहन वाजा महोदय: गीर सोमनाथजनपदस्य श्रेष्ठशिक्षकस्य पारितोषिकं (एवॉर्ड) लब्धवान् ।