सेमीकॉन-इण्डिया-सम्मेलनस्य द्वितीये दिने प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदेहलीस्थे यशोभूमौ सेमिकण्डक्टर-क्षेत्रस्य विशेषज्ञैः सह संवादः कृतः ।
हिमसंस्कृतवार्ता: – सेमीकॉन-इण्डिया-पञ्चविंशत्यधिक-द्विसहस्त्रतमवर्षस्य द्वितीये दिने प्रधानमन्त्रिणा नरेन्द्र-मोदिना अद्य नवदेहलीस्थे यशोभूमौ सेमिकण्डक्टर-क्षेत्रस्य विशेषज्ञैः सह संवादः कृतः। तेन प्रदर्शनीनां अवलोकनं कृत्वा सेमिकण्डक्टर इत्यनेन सम्बद्धानां विविधानां उत्पादानां परियोजनानाञ्च अवलोकनं विहितम्। अस्मिन् अवसरे सूचना-प्रोद्योगिकी-मन्त्री अश्विनी वैष्णवः उपस्थितः आसीत्। श्रीमोदी सेमीकॉन-इण्डिया इत्यस्य गोलमेज़-सम्मेलने अपि भागं अभजत्। सीईओ-गोलमेज़-सम्मेलने विश्वस्य उद्योग जगतः महान्तः नेतारः समायाताः। अवधेयमस्ति यत् त्रिदिनात्मकस्य अस्य सम्मेलस्य उद्घाटनं प्रधानमन्त्रिणा मोदिना कृतम्। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीय-मन्त्रिणा अश्विनी वैष्णवेन लिखितं एकं लेखमपि प्राकाटयत्, यस्मिन् भारतस्य रूपान्तरकारिणी सेमिकण्डक्टर-यात्रा प्रकाशिता। सः अवदत् यत् सेमीकॉन-इण्डिया-शिखर सम्मेलनम् पञ्चविंशत्याधिक-द्विसहस्त्रतमं अस्याः यात्रायाः निरन्तरतायाः प्रतीकमस्ति ।
सेमीकॉन-इण्डिया-सम्मेलनस्य द्वितीये दिने प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदेहलीस्थे यशोभूमौ सेमिकण्डक्टर-क्षेत्रस्य विशेषज्ञैः सह संवादः कृतः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
