हिमाचलम् आपदा प्रभावितं राज्यं घोषितम्, मुख्यमन्त्रिणा विधानसभायां घोषणा कृता
हिमसंस्कृतवार्ता:- शिमला। अधुना हिमाचलसर्वकारेण आपदाप्रबन्धन- विधानानुसारं सम्पूर्णं हिमाचलम् आपदाप्रभावितं इति घोषितम्। चम्बा-काङ्गड़ा-जनपदयोः भ्रमणं कृत्वा मुख्यमन्त्री सुक्खुः सोमवासरे विधानसभायां वक्तव्यं दत्त्वा एतां घोषणां कृतवान्। मुख्यमन्त्री उक्तवान् यत् अधुना सर्वेषां मण्डलानां उपायुक्ताः स्वस्थित्यानुसारं आपदाप्रबन्धनविधानस्य उपयोगं कर्तुं शक्नुवन्ति। आपदाप्रभावित इति घोषणाया: अनन्तरं हिमाचलम् भारतसर्वकारात् सहयोगं प्राप्तुं साहाय्यं अपि प्राप्स्यति। एतेन सह मुख्यमन्त्री भाजपानेतु: पूर्वमुख्यमन्त्रिण: च शान्ताकुमारस्य पत्रस्य समर्थनस्य च सदने धन्यवादं दत्तवान्। सः अवदत् यत् शान्ताकुमारः केन्द्रसर्वकारेण विपत्विरुद्धं युद्धाय हिमाचलाय २०,००० कोटिरूप्यकाणां विशेषसहायतापुटं दातुम् आग्रहं कृतवान्। एतेन सह सः प्रधानमन्त्रिणं स्वपत्रे अपि लिखितवान् यत् तटेषु स्थितस्य २ लक्षकोटिरूप्यकाणां अदावितधनात् आपदाश्रयं दातव्यम् इति। मुख्यमन्त्रिणः आग्रहेण विधानसभाध्यक्ष: कुलदीपसिंहपठानिया शान्ताकुमारस्य अस्य आग्रहस्य समर्थने संकल्पं पारितं कृतवान्। मुख्यमन्त्री अवदत् यत् २१ अगस्ततः १ सितम्बरपर्यन्तं चम्बा, कुल्लू:, लाहौल-स्पीति:, मण्डी, काङ्गड़ा, शिमला, हमीरपुरम् इत्येतेषु जनपदेषु हानिः अभवत्। एतावता ३००० कोटिरूप्यकाधिकं हानिः अभवत्।मुख्यमन्त्री उक्तवान् यत् राज्यसर्वकारः पूर्णतया सज्जतापूर्वकम् आश्रय-उद्धार-कार्यक्रमेषु प्रवृत्तः अस्ति। मणिमहेशयात्रायां निरुद्धानां १५००० तीर्थयात्रिकाणां मध्ये १००० यात्रिकाणां सुरक्षितरूपेण निष्कासनं कृतं, शेषयात्रिकाणां कृते विमानसेवायाः व्यवस्था क्रियते। सः अवदत् यत् एतावता मणिमहेशे १६ जनाः मृताः। कुगतीस्थले अधुनापि चत्वारि पार्थिवशरीराणि सन्ति, तेषां निष्कासनार्थं मण्डलप्रशासनेन २० वाहकानां व्यवस्था कृता अस्ति। मुख्यमन्त्री उक्तवान् यत् सः स्वयमेव चम्बां गतः, राजस्वमन्त्री जगतसिंहनेगी अद्यापि भरमौरे शिविरं कुर्वन् अस्ति।
लोकनिर्माणमन्त्री विक्रमादित्यसिंह:, अधीक्षण- अभियंता लोकनिर्माणविभाग:, मुख्याभियंता धर्मशाला, डीआईजी कांगड़ा इत्येतै: सह मण्डलायुक्त: कांगड़ा-चम्बा प्रेषिता: सन्ति। मुख्यमन्त्री उक्तवान् यत् चम्बा पठानकोटमार्गः सर्वेषां वाहनानां कृते उद्घाटितः अस्ति, चम्बातः भरमौरपर्यन्तं २५ किलोमीटर चम्बा, सलूनी, पदरीजोतमार्गः उद्घाटितः अस्ति येन जम्मू-कश्मीरतः यात्रिकाः अस्मिन् मार्गेण प्रेषयितुं शक्यन्ते। भरमौरे प्रचलति उद्धारकार्यस्य कृते काङ्गड़ातः त्रयः उपग्रह-दूरभाषयन्त्राणि अपि प्रदत्तानि सन्ति, एयरटेल-संस्थायाः २जी- जालस्य पुनर्स्थापनं च कृतम्।मुख्यमन्त्री उक्तवान् यत् कुल्लू मण्डी राष्ट्रियराजमार्गस्य जीर्णोद्धारकार्यं प्रचलति, यदा तु कटौलामार्गः लघुवाहनानां कृते उद्घाटितः अस्ति। शाकादिवाहनानि प्रथमं गच्छन्ति। एनएचएआई- अधिकारिणः अपि कुल्लू मनाली-मध्ये कृतस्य क्षते: पुनर्स्थापनार्थं गताः सन्ति। बञ्जारं विहाय सम्पूर्णे कुल्लुक्षेत्रे संचारव्यवस्था पुनः स्थापिता, पुरातनमनालीसेतुः अपि पुनः स्थापितः अस्ति। लाहौल-स्पीतौ अपि स्थितिः सामान्या भवति, हेलिकॉप्टरद्वारा गर्भवतीं बालकं च सहितं कुलपञ्च रोगिणः निष्कासिताः सन्ति।
आवश्यकता भवति चेत् यन्त्राणि उत्थापयितुं चक्रविमानानि आहूतानि भविष्यन्ति
मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् भरमौरे चक्रविमानद्वयं स्थापितं, परन्तु ऋतु: बाधकः भवति। आवश्यकता चेत् यन्त्रं उत्थाप्य यत्र मार्गः भग्नः अस्ति तत्र नेतुम् आवश्यकं भवति चेत् सेनाचक्रविमानम् अपि आहूतम् भविष्यति। सूचनां दत्त्वा मुख्यमन्त्री उक्तवान् यत् मार्गं उद्घाटयितुं जेएसडब्ल्यू कम्पन्याः पोकलेन यन्त्रं स्थापितम्। प्रातःकाले तस्मिन् महती शिला पतिता, तस्मात् बहु क्षतिः अभवत्। तथापि चालकः सर्वथा सुरक्षितः अस्ति। अस्मिन् कार्ये एतादृशानि आह्वानानि सम्मुखीभवन्ति।