रूसराष्ट्रपतिः व्लादिमीर् पुटिनः दिसम्बरमासे आगमिष्यति भारतम्
मास्को। रूसराष्ट्रपतिः व्लादिमीर् पुटिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह वार्षिकशिखरसम्मेलनार्थं दिसम्बरमासे भारतं गमिष्यति। पुटिन् महोदयस्य अन्तर्राष्ट्रीयकार्याणां सहायकः यूरी उशाकोवः एकस्मिन् संक्षिप्तसमारोहे एतत् घोषितवान्। TASS इत्यस्य प्रतिवेदनानुसारं उशाकोवमहोदयेन उक्तं यत् रूसराष्ट्रपतिना चीनदेशस्य तियानजिन्नगरे अगस्तमासस्य ३१ दिनाङ्कात् सितम्बर्मासस्य प्रथमदिनपर्यन्तं भविते एससीओ-शिखरसम्मेलनस्य पार्श्वे १० अधिकाः द्विपक्षीयसमागमाः निर्धारिताः सन्ति, यत्र मोदीमहोदयेन सह समागमः अपि अस्ति। पुटिन् महोदयः एससीओ-शिखरसम्मेलनस्य पार्श्वे सितम्बर्-मासस्य प्रथमे दिने मोदी-महोदयेन सह मिलति, अस्मिन् वर्षे एषा प्रथमा सभा भविष्यति, यद्यपि तेषां सम्पर्कः दूरभाषेण बहुवारं अभवत् |. समागमे सः डिसेम्बरमासे भारतयात्रायाः विषये चर्चां करिष्यति।
रूसराष्ट्रपतिः व्लादिमीर् पुटिनः दिसम्बरमासे आगमिष्यति भारतम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
