पाटलिपुत्रस्थ एडुलेटिक्स इंटरनेशनल-अ-ब्रिटिश-विद्यालये संस्कृतदिवस-समारोहः -२०२५
श्रावण-शुक्ल-पौर्णमास्याम् अगस्त मासस्य 9 दिनाङ्के महता उत्साहेन परिपालित:
वार्ताहर: – जगदीश डाभी
पाटलिपुत्रस्थ एडुलेटिक्स-इंटरनेशनल-अ-ब्रिटिश-विद्यालये श्रावण-शुक्ल-पौर्णमास्याम् अगस्त मासस्य 9 दिनाङ्के ऐषम: संस्कृतदिवससमारोह: महता उत्साहेन परिपालित:। विद्यालये संस्कृतसप्ताहं समाचरन्तः सर्वे छात्रा: शिक्षकाश्च संस्कृतसंभाषणपूर्वकं विविधा: क्रियाकलापा: संस्कृते आचरिता: येन आसप्ताहं विद्यालये संस्कृतमयं वातावरणमासीत्| विद्यालयेन संस्कृतविषयं प्रति छात्राणाम् अभिरुचिं वर्धनार्थं संस्कृतदिवसं समुपलक्ष्य विभिन्नस्तरेषु विभिन्नस्पर्धानाम् आयोजनमपि कृतम्। यत्र सार्थसुभाषितकण्ठपाठ:, काव्यकण्ठपाठ:, धातुकण्ठपाठ:, शब्दरूपकण्ठपाठ:, स्तोत्रकण्ठपाठ:, संस्कृतगीतगानं, संस्कृतरैपगानम्, भगवद्गीताकण्ठपाठ:, संस्कृतरूपकम्, एकपात्राभिनय: इत्यादय: स्पर्धा: प्रमुखा: आसन्| एतासु स्पर्धासु शताधिकैच्छात्रै: सोत्साहं स्वाभिरूचिप्रदर्शनपुरस्सरं भागग्रहणं कृतम्| विजेतॄणां छात्राणां सम्माननं प्रमाणपत्रै: पदकै: च मुख्यातिथिभि: कृतम्।
संस्कृतसप्ताहस्य कार्यक्रमस्यारम्भ: विद्यालस्य समादरणीयैः निदेशकैः श्री राजेशसिंहवर्यैः स्वकरकमलाभ्यां कृतः। अवसरेऽस्मिन् विद्यालयस्य CEO श्री अश्विन सिंह: तथा विद्यालयप्रबन्धिका श्रीमती नीता सिंह: महोदया तथा च अन्ये गणमान्या: अपि समुपस्थिता: आसन्। कार्यक्रमस्य आरम्भः दीपप्रज्वलनपुरस्सरं सरस्वतीवन्दनया चाभवत्। समारोहं शोभयन्तः छात्राः मनोहारिण्या संस्कृतनाट्यप्रस्तुत्या, भावगर्भितैः श्लोकपाठैः, मधुरगीतैः च श्रोतॄन् हर्षयामासु: वातावरणञ्च संस्कृतमयं चक्रु:।
समारोपसमये विद्यालयप्राचार्या श्रीमतिरेश्मा सिंह: उपप्राचार्य: श्री देवरतन सिंह: सर्वान् छात्रान् उद्दिश्य भावपूर्णं संदेशं प्रदत्तवन्तौ— “संस्कृतं न केवलं भाषा, अपि तु अस्माकं संस्कृति-परम्परायाः प्राणाः। संस्कृताध्ययनं केवलं शास्त्रविस्तारः न, किन्तु जीवनस्य परिष्कारः अपि। अतः छात्रैः एषा भाषा नित्यं अध्ययनीया, अनुवर्तनीया च।” विद्यालयस्य संस्कृतविभागसदस्यै: मान्यै: श्रीपङ्कज-झावर्यै:, श्रीजाधव-निवृत्तिमहाभागै:, श्रीश्यामकुमारदूबेमहाभागैश्च सर्वविधायोजनं संयोजनं च कृतम्।
