PM Modi – प्रधानमन्त्री श्रीनरेन्द्रमोदी जापानचीनयोः यात्रायै निर्गतवान्, तत्रासौ टोक्योनगरे भारतजापानयोः पञ्चदशे वार्षिकशिखरसम्मेलने भागमपि भजिष्यति
हिमसंस्कृतवार्ता: – प्रधानमन्त्री श्रीनरेन्द्रमोदी जापानचीनयोः यात्रायै निर्गतवान् । तत्रासौ टोक्योनगरे भारतजापानयोः पञ्चदशे वार्षिकशिखरसम्मेलने भागमपि भजिष्यति । प्रधानमन्त्रिणः नरेन्द्रमोदिनः इयं अष्टमी जापानयात्रा भविष्यति सहैव तत्रासौ स्वसमकक्षेण शिगेरु-इशिबा इत्यमुना सहापि शिखरवार्ता कुर्यात् । विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये प्रोदीरितं यत् उभावपि नेतारौ भारतजापानयोः रणनीतिक वैश्विकसहभागितायाः समीक्षां विधास्यतः । स्वीययात्रायाः द्वितीयचरणे प्रधानमन्त्री चीनस्य राष्ट्रपतेः शी-जीनपींग इत्यस्य निमन्त्रणम् अधिकृत्य शंघाई-सहयोग-संगठन-शिखर-सम्मेलने एकत्रिंशद्दिनाङ्कात् सितम्बरमासस्य एकदिनाङ्क यावत् चीनस्य यात्रां करिष्यति।
जनधन-योजनया सम्पूर्णे भारते जीवनं वित्तीयबहिष्कारात् सशक्तिकरणं प्रति परिवर्तितम् – प्रधानमन्त्री नरेन्द्रमोदी।
हिमसंस्कृतवार्ता: – प्रधानमन्त्री जनधन-योजनायाः एकादशवर्षाणि पूरितानि । इदं विश्वस्य बृहत्तमासु वित्तीयसमावेशपरिकल्पनासु अन्यतमास्ति यस्याः घोषणा प्रधानमन्त्रिणा नरेन्द्रमोदिना चतुर्दशाधिक-द्विसहस्रतमवर्षस्य अगस्तमासस्य पञ्चदशदिनाङ्के रक्तदुर्गस्य प्राचीरात् कृता। एकस्मिन् सोशल मीडिया सन्देशे पीएम-जनधन योजनायाः चित्राणि विनिमयी कुर्वता प्रधानमन्त्रिणा मोदिना प्रकाशितं यत् कथं योजनया सम्पूर्णे भारते जीवनं वित्तीयबहिष्कारात् सशक्तिकरणं प्रति परिवर्तितम्। सः उल्लेखितवान् यत् यदा अन्तिमः जनः आर्थिकरूपेण सम्बद्धः भविष्यति तदा सम्पूर्णं राष्ट्रं एकं भूत्वा अग्रे गमिष्यति। श्रीमोदी अवदत् यत् एषा योजना गौरवं वर्धितवती, जनानां कृते स्वकीयं भाग्यं लिखितुं शक्तिमपि प्रदत्तवती ।
