“प्रो. रमाकान्तपाण्डेयः ‘कविआचार्य रेवाप्रसादद्विवेदिसम्मान’ इत्यनेन अलङ्कृतः”
हिमसंस्कृतवार्ता:- प्रवेशकुमारशुक्ल, भोपालम्) केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य यशस्वीनिदेशकः प्रो. रमाकान्तपाण्डेयः सनातन- कवि- आचार्य- रेवाप्रसादद्विवेदिसम्मान इत्यनेन अलङ्कृतः। अस्य सम्मानस्य प्रदाने अवसरः आसीत् महर्षेः पतञ्जलेः जन्मजयंतीमहोत्सवः यः उत्तरप्रदेशस्य वाराणस्यां नागकुप- शास्त्रार्थ- समित्या आयोजितः। प्रो. पाण्डेयस्य नेतृत्वे प्रायः त्रिंशत् अनुसंधानच्छात्राः पीएचडी उपाधिं प्राप्तवन्तः। तेन अनेकानि संस्कृत-नाटकानि निर्देशितानि, येषां प्रस्तुतीः विदेशेषु अपि सम्पन्नाः। अद्यतनेषु दिवसेषु प्रो. पाण्डेयेन पञ्चषष्टिः ग्रन्थाः, एकशतम् अशीतिः च शोधपत्राणि प्रकाशितानि। तस्य समीक्षा-निपुणतायाः, संपादन-कुशलतायाः च कारणेन तेन प्रायः पञ्चदशसम्मानाः लब्धाः। प्रो. पाण्डेयः विभिन्न-विश्वविद्यालयेषु पाठ्यक्रमनिर्माणे अपि योगदानं दत्तवान्, यत्र कुरुक्षेत्रविश्वविद्यालयः, इग्नू च विशेषतया प्रमुखौ स्तः। राष्ट्रस्य विविधानि विश्वविद्यालयानि आयोजितेषु शोध-संगोष्ठीषु तेन बीजवक्तव्यानि, शोधपत्रप्रस्तुतयः च दत्ताः। विदेशेषु थाईलैण्ड, लन्दन, आयरलैण्ड, नेपालदेशे च तेन व्याख्यानानि प्रदत्तानि। अद्यतनकाले सः भोपालपरिसरस्य निदेशकः, भाषा- साहित्य- संस्कृतिसंकायस्य अधिष्ठाता, नाट्यशास्त्राध्ययन- परिषदस्य अध्यक्षा: च सन्ति।
“प्रो. रमाकान्तपाण्डेयः ‘कविआचार्य रेवाप्रसादद्विवेदिसम्मान’ इत्यनेन अलङ्कृतः”
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
