3 इडियट्स इति चलच्चित्रस्य ९१ वर्षीय-अच्युत पोतदारस्य निधनमभवत्
वार्ताहर: – जगदीश डाभी, मुम्बई
(हिमसंस्कृतवार्ता:) प्राप्तवार्तानुसारं गतदिवसे बॉलीवुड इत्यस्य ९१ वर्षीय-प्रसिद्धः अभिनेता अच्युत पोतदारस्य निधनमभवत्। अच्युत पोतदार: हिन्दीचलच्चित्रेण सह मराठीचलच्चित्रस्य अपि लोकप्रियः अभिनेता आसीत् । सः स्वस्य कार्यक्षेत्रे १२५ तः अधिकेषु चलच्चित्रेषु कार्यं कृतवान् । आमिरखानस्य ३ इडियट्स इत्यमिन् सफल-चलच्चित्रे अभिनयं कृतवान् । इत्यस्मिन् चलच्चित्रे प्राध्यापकस्य भूमिकां निर्वहति स्म । अस्मात् चलच्चित्रात् तस्य संवादः “अरे, किं वक्तुम् इच्छसि?” अतीव लोकप्रियः अभवत् । इति 3 इडियट्स इति चलच्चित्रस्य ९१ वर्षीय-अच्युत पोतदार: दिवंगत: जात:।