प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां एकादश-सहस्रकोटिरूप्यकाणां द्वयोः राष्ट्रियराजमार्ग-परियोजनयोः उद्घाटनं विहितवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां प्रायः एकादशसहस्र-कोटिरूप्यकाणां प्रमुखयोः राष्ट्रियराजमार्गस्य द्वयोः परियोजनयोः उद्घाटनं विहितवान्। एतासु परियोजनासु द्वारका-एक्स्प्रेसवे इत्यस्य दिल्लीखण्डः, नगरीयविस्तारमार्गः यू ई आर द्वितीयभागश्च सम्मिलितौ स्तः। एताः परियोजनाः राष्ट्रियराजधान्यां यातायात-अवरोधस्य न्यूनीकरणाय प्रशासनस्य व्यापकयोजनायाः अन्तर्गतं प्रकल्पिताः सन्ति। प्रधानमन्त्रिणा अवसरेऽस्मिन् “वोकल फोर लोकल” इत्यस्योपरि बलं प्रदत्तम्। सहैव तेन भारतीयोत्पादकेषु विश्वासार्थं क्रयणार्थञ्च जनाः निवेदिताः। राजमार्गयोजनानां उद्घाटनावसरे श्रीमोदिना प्रोदीरितं यत् राष्ट्रस्य दृढीकरणार्थं चक्रधरमोहनात् प्रेरणा ग्राह्या सहैव आत्मनिर्भरभारतस्य निर्माणार्थं सूत्रचक्रधरमोहनस्य मार्गः अनुसरणीयः। अस्मिन् अवसरे श्रीमोदी अवदत् यत् द्वारका एक्सप्रेसवे तथा यूआर-द्वितीयः इत्येतयोः दिल्लीखण्डस्य उद्घाटनेन सम्पूर्ण एनसीआर-मध्ये संयोजने नूतनाः उपलब्धयः प्राप्ताः भविष्यन्ति। सः अवदत् यत् एतेन जनानां आवागमने अपि समयस्य रक्षणं भविष्यति। प्रधानमन्त्रिणा प्रोदीरितं यत् सर्वकारस्य कृते परिष्कारस्यार्थः सुशासनस्य विस्तारः वर्तते । देहल्या: मुख्यमन्त्री रेखागुप्ता सर्वेषां दिल्लीवासिनां पक्षतः प्रधानमन्त्रिणे नरेन्द्रमोदीवर्याय धन्यवादं प्रदत्तवती, सा अवदत् यत् सः जनानां विकासाय महद् कार्यं कृतवान् अस्ति। एतासां परियोजनानां उद्देश्यं दिल्लीनगरे तस्य परितः च क्षेत्रेषु संयोजने महत्त्वपूर्णं सौविध्यं प्रदानं, यात्रासमयस्य न्यूनीकरणं, सुचारु- यातायातस्य च सञ्चालनं वर्तते ।
प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां एकादश-सहस्रकोटिरूप्यकाणां द्वयोः राष्ट्रियराजमार्ग-परियोजनयोः उद्घाटनं विहितवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
