नेपालस्य द्विदिनात्मकायै राजकीययात्रायै काठमाण्डूनगरं संप्राप्तवान् भारतीय-विदेशसचिवः विक्रममिस्री
हिमसंस्कृतवार्ता: – भारतीय-विदेशसचिवः विक्रममिस्री नेपालस्य विदेशसचिवस्य आमन्त्रणमालक्ष्य द्विदिनात्मकायै राजकीययात्रायै काठमाण्डूनगरं संप्राप्तवान्। असौ सिंहदरबारनगरे प्रधानमन्त्रिणा के.पी शर्मा ओलीवर्येण सह मेलनं विहितवान्। सः राष्ट्रपतिः रामचन्द्रपौडेलः, नेपालकाङ्ग्रेसदलस्य अध्यक्षः शेर बहादुर देउबा, सीपीएन दलस्य अध्यक्षः पुष्पकमल-दहलः, विदेशमन्त्री आरजू राणा देउबा, चेत्येषां नेतृणां साकं मेलनं करिष्यति। श्री मिस्री विदेशसचिवेन अमृत-रायबहादुर इत्यनेन सह प्रतिनिधिमण्डलस्तरीयां वार्ताम् अपि करिष्यति। उभयोः विदेशसचिवयोः मध्ये सम्पर्क-विकाससहयोगयोः सहैव अन्येषु द्विपक्षीयविषयेषु चर्चा भविष्यति।
नेपालस्य द्विदिनात्मकायै राजकीययात्रायै काठमाण्डूनगरं संप्राप्तवान् भारतीय-विदेशसचिवः विक्रममिस्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
