शिक्षाक्षेत्रे विशेषनाम “डाॅ. गीता आर्या” संस्कृतप्रवक्तापदात् सेवानिवृत्तिमहोत्सव:
वार्ताहर: – जगदीश डाभी
हरियाणा । “यदि भवतां उच्चे पादपीठे स्थापयितव्यं तर्हि गुरुं स्थापयतु, स: समाजस्य नायक: अस्ति।”
या स्मितं प्रसारयति, प्रकाशं ददाति, सा नित्यं प्रसन्नचित्तेन शान्तस्वरूपा सौंदर्यमयी अस्ति। अस्माकं डॉ. गीता आर्या, वयं भवत्या आगामिप्रसन्नदिवसैरभिभूता स्म:, परंतु भवत्या: सेवानिवृत्त्या भावनात्मकरूपेण प्रभाविता: स्म:।
भवत्या: जन्म ०८ जुलाई १९६७ तमे दिनाङ्के चौधरीजोगीन्द्र सिंहस्य (चेयरमैन) समृद्धे परिवारे अभवत्। भवत्या: परिवारे आर्यसमाजस्य संस्काराणां शुद्धता कमलमिव विद्यमाना अस्ति। भवत्या: संस्कारपूर्णं जन्मगृहं अतरचटास्थाने पलवलजनपदे अस्ति। भवती स्वपितु: चतुर्षु संततिवयेषु तृतीयस्थाने अस्ति।
डॉ. गीताया: अग्रज: जितेंद्रसिंह: सेवानिवृत्त: अस्ति तथा च अनुज: डॉ. किशनप्रतापसिंह: क्षेत्रीयभविष्यनिधि: आयुक्तः: चंडीगढ़: श्रम तथा रोजगार मंत्रालये भारतसर्वकारे अस्ति तथा च एक: हो अग्रज: राजेश कुमारी शिक्षित: प्रभाकर ओ.टी. अस्ति। भवत्या: प्राथमिकशिक्षा ग्रामस्य सरकारीविद्यालयत् आराब्धा। पश्चात् भवत्या: १९८० तमे वर्षे आर्ष कन्या गुरुकुलदाधिया (दाधिया, अलवर राजस्थान) इत्यत्र अध्ययनं कर्तुं गतवती। अनन्तरं भवत: समादरणीयपितु: सार्थकप्रयत्नै: कन्यागुरुकुलस्य हसनपुरे (पलवलजनपदे) स्थापना अभवत्। अत्र आगम्यध्ययनं निरन्तरं प्रचलितम्। १९९० तमे वर्षे श्रीलालबहादुरशास्त्री राष्ट्रीयसंस्कृतविद्यापीठत: (नवदेहलीत:) शिक्षाशास्त्री उपाधिं प्राप्य आचार्य कृते गुरुकुलकाङ्गड़ीविश्वविद्यालयं हरिद्वारम् (उत्तराखण्डम्) प्रति प्रस्थानमभवत्। अस्मिन् काले १९९३ तमे वर्षे गणितस्य व्याख्यातया (सर्वकारी अन्तरमहाविद्यालय: राकलपुरा गाजियाबाद उत्तरप्रदेश:) श्री कृष्णपालजी इत्येन सह भवत्या: विवाह: अभवत्। सौभाग्येन १९९४ तमे वर्षे सितंबर्-मासस्य १३ दिनाङके भवती सर्वकारीयसेवायां पदम् स्थापयित्वा प्रथमकार्यविद्यालयत्वेन उजीना-नगरस्य (गुरुग्राम) शासकीयउच्चविद्यालये अध्यापिकारूपेण नियुक्ता। पारिवारिकजीवने भवद्भि: भी २९ जुलाई १९९५ तमे वर्षे ०९ जुलाई १९९७ तमे वर्षे च सिद्धार्थ: महिमा च रत्नद्वयम् प्राप्तम्। पुत्री महिमा २०२३ तमे वर्षे सम्पूर्णे भारते प्रशासनिकसेवायां इति उच्चपदम् प्राप्य सर्वेषां शिक्षकानां गौरवं वर्धितवती, सा अद्य राजस्थानप्रशासनिकसेवायां कार्यं कुर्वती अस्ति। आर्यसमाजस्य सेवायां भवत्या: अग्रिमवंशावली सततं कृतप्रयत्ना अस्ति।
भवती अपि अस्मिन्नेव क्रमे सम्बंध्दा: अस्ति। लेखनकार्य अपि भवता विशेषं योगदानं अस्ति। अद्यैव हरियाणासंस्कृत अकादम्या (पंचकुलाद्वारा) संस्कृतपुस्तकलेखनक्षेत्रे “बाणभट्ट”: पुरस्कारेण भवती सम्मानिता।
आर्यसमाजस्य विशेषकार्यकर्तव्यस्य कारणात् सम्प्रति “विश्वहिंदूपरिषद:” (संस्कृतआयाम) हरियाणाप्रान्तस्य से उपाध्यक्षत्र नामांक्यता उपाध्यक्षत्वेन नामाङ्किता भवती। २०२४ तमे वर्षे नवीदिल्ली-नगरस्य राष्ट्रीयसंस्कृतसंस्थानेन विद्यावारिधि इति उपाधिना भवती सम्मानिता। दीर्घकालं यावत् संघर्षं कृत्वा २०२३ तमेवर्षे शिक्षकपदात् पद्दोन्नतिं प्राप्य संस्कृतव्याख्यातस्य परिसरं अलङ्कृत्य सम्प्रति राजकीयवरिष्ठमाध्यमिकविद्यालयस्य लक्करपुरस्य (फरीदाबादस्य) गौरवरूपेण स्वकर्तव्यं निर्वहन्ति। भवान् ३१ वर्षाणि यावत् शिक्षाविभागे सेवां कृतवती। भवती कर्तव्यं, निष्ठां, अनुशासनं, प्रेमभाव:, सरलजीवनं, उच्चचिन्तनं च अस्माकं सर्वेषां कृते सराहनीयं योगदानं प्रेरणा च भवेत्। जीवने भवती स्वाशीर्वादजलधाराभि: अस्मान् बालस्वरूपान् वृक्षाकान् पुष्पितं पल्लवितञ्च कृतवती।
विदुष्याः डॉ. गीता आर्यायाः सेवानिवृत्तिः कार्यक्रमे विश्वहिन्दूपरिषदः राष्ट्रियाध्यक्षः श्रीमान् दिनेशमहोदयः, पूर्वजिलाशिक्षाधिकारः च हरियाणासंस्कृत-अकादम्याः अध्यक्षः श्रीमान् दिनेशकुमारशास्त्रिणश्च विशेषरूपेण सुभाषिशार्थमागताः। अत्रैव हरियाणा राजकीयसंस्कृत अध्यापकसंघस्य (फरीदाबादजनपदस्य) प्रधानः श्रीमान् बलवीरवाजपेयीशास्त्रीः, श्रीराकेशशास्त्रीः, श्रीपुरुषोत्तमभारद्वाजः, हरियाणाअतिथिअध्यापकसंघस्य जिलाध्यक्षः श्रीयुत् रघुवत्सः, श्रीसुन्दरभडाना, श्रीसैलेन्द्रमिश्रा, पतञ्जलयोगपीठात् श्रीप्रवीणः, श्रीरमेशगुप्ता, विश्वहिन्दूपरिषदः श्रीदयानन्द बैंदाः, पञ्चकुलातः भविष्यनिधेः आयुक्तः डॉ. के.पी. सिंहः, समाजसेवी श्रीरघुवीर भडाना, कविः देवेन्द्रमहोदयः, श्रीबलरामकौशिक:, श्रीमती अनीताशास्त्रीः, श्रीमतीसंजूयादवः, श्रीमतीसुनीताजाखड़ः, श्रीमतीकाजलशर्मा चातिथयः विशेषरूपेण उपस्थिता आसन्।
