राष्ट्रीयवार्ताः- डोनाल्डट्रंप-व्लादीमीरपुतिनयोः अलास्कासंवादः, भारते जन्माष्टमी महोत्सवः
भारतेन अलास्कायां डोनाल्डट्रम्प-व्लादिमीर पुतिनयोः मध्ये सम्पन्नस्य शिखरसम्मेलनस्य स्वागतं कृतम्
हिमसंस्कृतवार्ता: – भारतेन अलास्कायां अमेरिकी राष्ट्रपतिनः डोनाल्डट्रम्पस्य रूसस्य राष्ट्रपतिनः व्लादिमीर पुतिन: इत्यनयोः मध्ये सम्पन्नस्य शिखरसम्मेलनस्य स्वागतं कृतम्। एकस्मिन् वक्तव्ये भारतस्य विदेशमन्त्रालयेन शान्तिवार्तायाः प्रशंसां कृता सहैव प्रोक्तं यत् संवादः कूटनीतिश्व समुदायस्य मार्गं प्रशस्तीकुरुतः। मन्त्रालयेन अग्रे कथितं यत् विश्वेन यूक्रेनसङ्घर्षस्य विरामः आकाक्ष्यते। अमेरिकी राष्ट्रपतिना परामृष्टं यत् रुसयूक्रेनदेशौ युद्धसमापनाय सन्धिविषये विचारयेताम्। अलास्कयां व्लादिमीर पुतिन इत्यमुना सह घण्टात्रयात्मकं उपवेशनं विधाय डोनाल्ड ट्रम्पः एतत् प्रख्यापितवान्। यूक्रेनस्य राष्ट्रपतिना वोलोदिमीर-जेलेंस्की इत्येषः प्रोक्तवान् यत् सः सोमवासरे वाशिंगटननगरे ट्रम्पेन सह मिलिष्यति।
विदेशमन्त्री डॉ. एस. जयशङ्करः नवदेहल्यां दक्षिणकोरियायाः स्वकीयसमकक्षेण चो-ह्यून इत्यमुना सह द्विपक्षीयोपवेशनं साधितवान्
हिमसंस्कृतवार्ता: – विदेशमन्त्री डॉ. एस. जयशङ्करः नवदेहल्यां दक्षिणकोरियायाः स्वकीयसमकक्षेण चो-ह्यून इत्यमुना सह द्विपक्षीयोपवेशनं साधितवान् । अस्य वर्षस्य अप्रैलमासे पहलगामे दुरापन्नस्य आतङ्कवादाक्रमणस्य दक्षिणकोरियापक्षतः कृतनिन्दासन्दर्भे विदेशमन्त्रिणा डा. एस. जयशङ्करेण तत्रत्य विदेशमन्त्रिणे चो ह्यून इत्यस्मै कार्तज्ञं प्रकटितम्। नवदेहल्यां श्रीह्यून इत्यमुना सहोपवेशने डॉ. जयशङ्करः कोरियायाः राष्ट्रियमुक्तिदिवसमालक्ष्य उद्घाटनभाषणे दक्षिणकोरियायाः विदेशमन्त्रिणे शुभकामनां प्राकल्पयत्। अवसरेऽस्मिन् तयोः मध्ये रक्षा-सुरक्षा-व्यापार-अर्थनीति-जनसम्बन्धाञ्च समेत्य बहवः विषयाः विचारिताः। मन्त्रिणा प्रोक्तं यत्तयोः मध्ये हिन्दप्रशान्तक्षेत्रयोः सहैव वर्तमान-वैश्विकघटनाक्रमानालक्ष्य विचार-विनिमयः समजायत्।
प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदेहल्यां प्रायः एकादश-सहस्रकोटिरूप्यकाणां द्वयोः राष्ट्रियराजमार्ग-परियोजनयोः उद्घाटनं करिष्यति
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी अद्य नवदेहल्यां प्रायः एकादश-सहस्रकोटिरूप्यकाणां द्वयोः राष्ट्रियराजमार्ग-परियोजनयोः उद्घाटनं करिष्यति। एतासु परियोजनासु द्वारका-एक्स्प्रेसवे, दिल्लीखण्डः, सहैव नगरीयविस्तारमार्गस्य द्वितीयः भागः इत्येताः सम्मिलिताः सन्ति । प्रधानमन्त्री-कार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् एताः परियोजनाः राजधान्यां जनसम्मर्दस्य अपचयार्थं सहैव यातायातसौविध्याय च विकासिताः सन्ति। एतासां उद्देश्यं तावत् देहल्या: पार्श्ववर्तिक्षेत्रेषु यातायातसौख्यम्, सहैव यात्रायां समयपरिरक्षणम्, यातायातावरोधस्य च समाधानम् इत्येतानि सन्ति। अस्मिन् अवसरे प्रधानमन्त्री एकां जनसभां अपि सम्बोधयिष्यति।
जम्मूकश्मीरस्य किश्तवाड़-जनपदस्य छिसौती ग्रामे सहाय्योद्धार कार्यं सजवं प्रचलति
हिमसंस्कृतवार्ता: – जम्मूकश्मीरस्य किश्तवाड़-जनपदे सहाय्योद्धार कार्यं सजवं प्रचलति । राष्ट्रीयापत्मोचनबलं, राज्यापत्मोचनबलं, सैन्यबलं च समेत्य एम.आई. वायुयानं तत्रत्य सहाय्योद्धारकार्याय उपस्थिताः सन्ति । ध्यातव्यमस्ति यत् अस्यां घटनायां षष्टिः जनाः मृताः, शताधिक-जनाः व्रणिताश्व । प्रधानमन्त्रिणा नरेन्द्रमोदिना जम्मू-कश्मीरस्य उपराज्यपालेन मनोजसिन्हा-वर्येण तथा मुख्यमन्त्रिणा उमर अब्दुल्ला इत्यनेन सह जम्मू-कश्मीरस्य किश्तवाड़-क्षेत्रे मेघस्फोटस्य जलप्लावनस्य च स्थितिविषये वार्तालापः विहितः। सममेव केन्द्रीयमन्त्रिणा जितेन्द्रसिंहेन तत्र गत्वा स्थितिः विषये संज्ञानं विहितम् ।
अखिले हि देशे भगवतः श्रीकृष्णस्य जन्मोत्सवाख्यः जन्माष्टमी पर्व महोल्लासेन समाचरितम्
अखिले हि देशे भगवतः श्रीकृष्णस्य जन्मोत्सवाख्यः जन्माष्टमीपर्व महोल्लासेन समाचरितम् । अवसरेऽस्मिन् समेऽपि श्रीकृष्णभक्ताः भगवतः सपर्यायै मन्दिरेषु सश्रद्धं एकत्रितास्सन्ति। देशव्यापिनः सहस्रशाः देवालयाः पुष्पैः अलङ्कृताः, परम्परानुसारञ्च विभिन्नस्थलेषु प्रदर्शिन्यश्व प्रदर्श्यन्ते। उत्तरप्रदेशराज्यस्य मथुरावृन्दावननगरयोः श्रीकृष्णजन्मोत्सवाय भक्ताः सर्वतोभावेन सज्जाः वर्तन्ते। अवधेयमिदं यत् श्रीकृष्णजन्मभूमिमन्दिरे भगवतः श्रीकृष्णस्य द्विपञ्चाशदुत्तर-द्विशताधिक-पञ्चसहस्त्रतमाय जन्मोत्सवाचरणाय महान् जनसमुदायः मथुरायां समागतो विद्यते। मुख्यमन्त्री योगी-आदित्यनाथोऽपि श्रीकृष्णजन्मोत्सवे समागत्य श्रीकृष्णजन्मभूमिमन्दिरे पूजाऽर्चनां व्यदधात्। अत्रावसरे मुख्यमन्त्री योगी-आदित्यनाथः पञ्चचत्त्वारिंशदधिक-षड्शतं कोटिरुप्यकाणां अष्टादशाधिकैकशतं परियोजनानां लोकार्पणं शिलान्यासञ्च अकरोत्। गुजरातराज्यस्य सर्वाधिक-प्रतिष्ठिते द्वारकाधीशमन्दिरे सहैव डाकौर-शामलाजीमन्दिरे समेत्य सर्वेषु श्रीकृष्णदेवालयेषु अद्य जन्माष्टमी-पर्व्व महता हर्षेण दृढश्रद्धया च परिपाल्यते। राष्ट्रियराजधान्याः नोएडाप्रभृतिषु बहुषु स्थलेषु जन्माष्टम्याः भव्यायोजनाय जनाः सोत्साहेन नगराणि भूषयन्ति। दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता इत्येषा अवसरेऽस्मिन् ईस्ट आफ कैलाशस्थे इस्कॉनमन्दिरे पूजाऽर्चनाम् अकरोत्। राष्ट्रपति-प्रधानमन्त्रीजन्माष्टमी श्रीकृष्णजन्माष्टमी पर्व्वणः देश-विदेशेषु च निवसझः समेभ्यः भारतीयेभ्यः शुभकामनां प्रकल्पितवन्तौ ।राष्ट्रपतिपदासीना द्रौपदीमुर्मूः प्रधामन्त्री नरेन्द्रमोदी च श्रीकृष्णजन्माष्टमी पर्व्वणः देश-विदेशेषु च निवसत: समेभ्यः भारतीयेभ्यः शुभकामनां प्रकल्पितवन्तौ । अवसरेस्मिन् राष्ट्रपतिना प्रोक्तं यत् श्रीकृष्णेन समेभ्यः प्राणिभ्यः धर्मानुसारं कर्त्तव्यपालनाय मार्गः बोधितः। तया सर्वेऽपि नागरिकाः श्रीकृष्णेन उपदिष्टमार्गानुसरणाय प्रार्थिताः। अत्रावसरे प्रधानमन्त्री नरेन्द्रमोदी जनानां जीवने उर्जा उत्साहयोः प्रवर्धनाय भगवन्तं श्रीकृष्णं न्यवेदयत् ।
पूर्वप्रधानमन्त्रिणे श्रीअटलविहारीवाजपेयीमहाभागाय सप्तम्यां पुण्यतिथौ सश्रद्धं श्रद्धञ्जलिं समर्पयत्
देशः पूर्वप्रधानमन्त्रिणे श्रीअटलविहारीवाजपेयीमहाभागाय सप्तम्यां पुण्यतिथौ सश्रद्धं श्रद्धञ्जलिं समर्पयति। अत्रावसरे राष्ट्रपतिः द्रौपदीमुर्मूः प्रधानमन्त्री नरेन्द्रमोदी च राष्ट्रिय-राजधान्यां “सदैव अटल” इति नामाख्ये समाधिस्थले वाजपेयी-महोदयाय पुष्पाञ्जलिं अयच्छताम् । अवसरेऽस्मिन् केन्द्रीयमन्त्री राजनाथसिंहः, जेपी. नड्डा, किरेन रिजीजूः, गजेन्द्र सिंह शेखावतः, लोकसभाध्यक्षः ओम बिरला इत्येते उपस्थिताः आसन्। अवधेयमस्ति यत् अष्टादशाधिकद्विसहस्रतमवर्षस्य अगस्तमासस्य षोडशे दिनाङ्के सः दिवङ्गतः। असौ त्रिवारं देशस्य प्रधानमन्त्रीपदं अवहत् । पञ्चदशाधिकद्विसहस्रतमेवर्षे सः भारतस्य सर्वोच्चनागरिकसम्मानेन भारतरत्नेनापि सम्मानितः ।
