मन्दसौरजनपदे संस्कृत सप्ताहस्य समारोपः सम्पन्नः
वार्ताहर: – जगदीश डाभी
संस्कृतभारत्याः आयोजनक्रमेण संस्कृतसप्ताहस्य समापनसमारम्भः शासकीय बालक उच्चमाध्यमिक विद्यालये क्रमाङ्क ०२, मन्दसौरे विधिवत् सम्पन्नः। समारम्भे मुख्य वक्ता आसन् डॉ. श्री मिथिलेश नागर (संस्कृतभारती मालवा प्रान्तस्य समितिसदस्यः)। विशेषातिथिरूपेण उपस्थिताः आसन् — डॉ. ओमप्रकाश द्विवेदी (संस्कृत प्राध्यापकः, केन्द्रीय संस्कृतविश्वविद्यालयः, नवदेहली), विकासखण्डशिक्षाअधिकारी श्री आनन्द डाबरः, संस्कृतभारत्याः जिला उपाध्यक्षः श्री दिलीप दुबेः, जिला संस्कृतप्रकोष्ठस्य प्रभारी श्रीमती अर्चना दवे, तथा जिला मन्त्री श्री दिलीप भाटीः च। डॉ. मिथिलेश नागरः स्वसम्बोधने अवदत् — “संस्कृतभाषा अस्माकं शरीरस्य प्रत्येकनाडीषु निहिता अस्ति। वयं दैनन्दिनजीवने प्रायः ८०% संस्कृतशब्दानां प्रयोगं कुर्मः। अल्पेन प्रयत्नेन वयं संस्कृतं वक्तुं शिक्षितुं च शक्नुमः। संस्कृतभारती एतादृशं कार्यं निःशुल्कं करोति।” डॉ. ओमप्रकाश द्विवेदीः उक्तवान् — “यावत् वयं कस्यापि भाषायाः वाच्यरूपेण प्रयोगं न कुर्मः, तावत् तया भाषायाः सह वास्तविकसम्बन्धः न भवति।” श्री आनन्द डाबरः अवदत् — “संस्कृतविषयस्य सुचारुरूपेण संचालनाय सर्वकारः निरन्तरं प्रयत्नं करोति। पुस्तकानाम् उपलब्धताम् अपि वयं सुनिश्चितं कुर्मः।”
कार्यक्रमस्य अन्ते विद्यालयस्य प्राचार्यः श्री विजयसिंह पुरावतः अतिथिभिः सह महाराणा प्रतापस्य माता महारानी जयवन्तकँवरस्य नाम्ना नवविकसित उद्याने वृक्षारोपणं कर्तुं प्रेरितवान्। समारोह उपलक्ष्ये जयेश नागरः सह विद्यालयस्य शिक्षकाः कर्मचर्यश्च उपस्थिताः।
कार्यक्रमस्य संचालनं श्री जितेन्द्र चौरसिया इत्यनेन कृतम्, धन्यवादप्रस्तावः श्रीमती हंसा दुबे इत्यनेन प्रस्तुतः।