तापी-जिलान्तर्गतम् उच्छल-स्थले माँ-देवमोगरा-सर्वकारीय-कलाविद्यापीठे सुसम्पन्नः विश्व-आदिवासी-दिनोत्सव-२०२५-समारोहः
वार्ताहर: – जगदीश डाभी
तापी-जिलान्तर्गते उच्छल-स्थले स्थिते माँ-देवमोगरा-सर्वकारीय-कलाविद्यापीठे २०२५तमस्य अगस्त-मासस्य अष्टमे (०८/०८/२०२५) दिनाङ्के शुभे दिवसे “विश्व-आदिवासी-दिनोत्सवः” महता उत्साहेन आनन्देन सुसंस्कृत्या च समायोजितः। अत्रत्येषु छात्रेषु भारतीयजनजातीयसंस्कृतेः गौरवपूर्णस्य धरोहस्य अवबोधनम्, तेषु आत्मस्वाभिमानस्य आत्मगौरवस्य च जागरणम् इति प्रमुखम् उद्देश्यं मनसि निधाय महोत्सवोऽयं समायोजितः आसीत्।
समग्रोऽपि कार्यक्रमः डॉ. के. आर. भट्ट-महोदयायाः साभापत्ये कुशलमार्गदर्शनेन सुसम्पन्नः जातः। समारोहान्ते च प्रा. तृप्तिबेन पाडवी कृतज्ञता-निवेदनस्य दायित्वं निरवहत्।
कार्यक्रमस्य शुभारम्भः पारम्परिकया “धरती-वन्दना” इति आरत्या प्रार्थनया च सह समभवत्। समस्तमपि वातावरणं सर्वथा आदिवासि-परम्परायाः संस्कृतिसुगन्धेन आप्लावितं परिपूर्णं सुवासितं च समवर्तत।
प्रा.ऊर्विक-पटेल-महोदयेन प्रसङ्गानुकूलं उद्घाटनभाषणं विहितम्। ततः प्रा. अयूब-गामित-महोदयेन गामित-भाषायां जनजातीयः इतिहासः विस्तरेण प्रकाशितः। अनन्तरं डॉ. फाल्गुनी-गामित-महोदया आदिवासि-जीवन-गौरवविषये प्रेरणाप्रदम् उद्बोधनम् अकरोत्।
छात्रैः अपि गामितभाषायामेव देवमोगरामातुः गौरवगाथा उत्कण्ठया प्रस्तुता, अनया गौरवगाथया स्वसंस्कृतिविषये तेषां स्वाभिमानः स्पष्टतया सहजतया सुलभतया च प्राकाशत।
तदनन्तरम् आदिवासि-लोकगीतानां मनोमोहकम् अतीव आह्लादकं सुमधुरं गानं तैः कृतम्, येषां संश्रवणमात्रेण श्रोतृवर्गः हर्षेण आप्लावितः उल्लसितः च।
अस्मिन् शुभनिमित्ते सर्वैरपि सम्मिल्य परस्परम् एकत्वभावस्य भ्रातृत्वभावस्य च अभिनव-भावनया रक्षाबन्धनम् अपि च पर्यावरणस्य संरक्षणाय संवर्धनाय प्रकृतिं प्रति च स्वीयदायित्वबोधाय वृक्षाबन्धनं च समायोजितम्।
कार्यक्रमस्य समापनम् आदिवासी-परम्परायाः अनुसारं विविधैः वर्णमयैः वस्त्रैः अलङ्कृतानां छात्राणां लोकनृत्येन अभवत्। पारम्परिकवेषभूषायाः धारणे प्रदर्शने च क्रमशः श्रेष्ठतां प्राप्तवतः त्रीन् छात्रान् कार्यक्रमस्य मान्यवराः सम्मानपत्रैः पुरस्कारैः च विभूषितवन्तः।
कार्यक्रमस्य सत्रसञ्चालनं प्रा. प्रदीप-वसावा-महोदयः मनोहारिण्या वसावा-भाषया समकरोत्।
कार्यक्रमस्य समापनसमये यशस्वितया सुसम्पन्नतार्थं प्रा. तृप्तीबेन-पाडवी-महोदया सर्वेभ्यः कृतज्ञतां ज्ञापितवती।