संस्कृताचरणे कण्वाश्रमे उपनयनं, भव्यशोभायात्रा
हिमसंस्कृतवार्ता:- कुलदीपमैन्दोला, कोटद्वारम्।श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वारनगरसमीपे महर्षिकण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिकगुरुकुले नूतनवटूनामुपनयनसंस्कारः शास्त्रविधिना सुसम्पन्नोऽभवत्। अयं महोत्सवः संस्कृतभारत्याः संस्थायास्तत्त्वावधाने समायोजितः।अस्य पावनस्यानुष्ठानस्य सञ्चालनं गुरुकुलस्य प्रधानाचार्येण नौटियालमनमोहनेन कृतम्। अस्मिन् मङ्गलावसरे पूज्यगुरुमहाराजाश्चिदानन्दमुनयः सर्वेभ्यो ब्रह्मचारिभ्यो गुरुमन्त्रं प्राददुः तेषां जीवने गुरुमन्त्रस्य महत्त्वं च विस्तरेण प्राकाशयन्। सनातनधर्मे वर्णितानां चतुर्णाम् आश्रमाणां गरिमाणं वर्णयन्तः ते विशेषेण ब्रह्मचर्याश्रमस्यादर्शेषु अनुशासने च बलं ददुः।
अभिभावकानाम् आचार्याणां च पवित्रे सान्निध्ये सम्पन्नस्यैतस्य संस्कारस्यानन्तरं संस्कृतभाषाया गौरवं महत्त्वं च प्रकाशयितुं विविधाः कार्यक्रमा आयोजिताः। संस्कृतभारत्या मार्गदर्शनेन छात्रैः श्रीमद्भगवद्गीतायाः श्लोकाः सुमधुरं समुच्चारिताः। ततः परं ब्रह्मचारिभिः संस्कृतभारत्या विभागसहसंयोजकेन मैन्दोलाकुलदीपेन सह रेलगानं सरसा भाषा संस्कृतम् इत्यादीनि गीतानि भावपूर्णमगायन् येन समग्रं वातावरणं संस्कृतमयं सञ्जातम्।गुरुकुलस्य पूर्वप्रधानाचार्यः कुकरेतिरमाकान्तः स्वसम्बोधनेऽकथयत् यत् संस्कृतं सर्वासां भाषाणां जननी अस्ति अस्याः संरचना च अतीव वैज्ञानिकी तर्कसङ्गता च वर्तते। गैप्स (GAPS) नाम्न्याः संस्थायाः संस्थापकः कालामहोदयो मनमोहनः बालकान् आधुनिकवैज्ञानिकदृष्ट्या संस्कृतभाषाया वैशिष्ट्यानि उपयोगितां च विषये प्रेरकां वार्ताम् अश्रावयत्।अस्मिन् कार्यक्रमे विद्यालयस्य आचार्याः सुभाषः रावतश्च विभागसंयोजकः ध्यानीपङ्कजः नैथानीसिद्धार्थः रावतशुभमः इत्यादयोऽनेके मान्याः जनाः समुपस्थिता आसन्। सम्पूर्णेऽस्मिन्नायोजने अध्यात्मसंस्कारभाषाप्रेम्णामद्भुतः सङ्गमः दृष्टः येन विश्वसंस्कृतदिवसस्य आयोजनमिदं वस्तुतः सार्थकं सञ्जातम्।