“भारतीयभाषासु, संस्कृतौ च साहित्ये च चिरंतनं मूलाधारभूता संस्कृतभाषा अस्ति” – डॉ राम भूषण विजल्वाणः
देहरादूननगरम्। संस्कृतभारती-देहरादूनेन संस्कृतसप्ताहस्य निमित्तेन “संस्कृतं किमर्थम्?” इत्येतत् समाधृत्य विशेषव्याख्यानस्य आयोजनं शर्माकुटिरे, रायपुरचौके, रायपुरे, देहरादूने सानन्दम् अभवत्। एषः कार्यक्रमः संस्कृतभाषाया: महत्वं, उपयोगितायां च सार्वकालिकप्रासङ्गिकतायां च सारगर्भितं विमर्शीकर्तुं, समाजे संस्कृतभाषायाः विषये जागरूकतां आत्मीयतां च सुदृढीकर्तुं च आयोज्यते स्म।
अस्मिन् अवसरे संस्कृतभारती-देहरादूनस्य जिलाध्यक्षः डॉ. रामभूषणः बिजल्वाणः स्वीये उद्घोषणे अवदत् यत्संस्कृतं केवलं भाषा न अस्ति, अपि तु भारतीयभाषाणां, संस्कृतेः, साहित्यस्य च मूलाधारभूता अस्ति। एषा समृद्धपरम्परा अस्माकं चिन्तनं, व्यवहारं, दृष्टिकोणं च शताब्दीं यावत् पोषयति स्म। संस्कृतस्य व्यापकः प्रचारप्रसारः अद्यत्वे परमावश्यकः यः भविष्यति संततये ज्ञानसंस्कारैः सह सम्बद्धां स्थापयितुं समर्थः भवेत्।कार्यक्रमस्य प्रस्ताविकम् उद्बोधनं विभागसंयोजकः नागेन्द्रदत्तव्यासः कृतवान्। सः अवदत् यत् “विषयोपस्थाने आत्मानं ज्ञातुं, स्वसंस्कृतिं च अवगन्तुं संस्कृताध्ययनं नितान्तं आवश्यकम्। यदि वयं संस्कृतेः सह सम्बद्धा भविष्यामः, तर्हि आत्मसत्त्वेन सह राष्ट्रचेतनया अपि सम्बद्धा भविष्यामः।”मुख्यवक्तृरूपेण जनपदमन्त्री डॉ. प्रदीपः सेमवाल महोदयः स्ववक्तव्ये विशेषतः एषां विषयाणां विवेचनं कृतवान् यत् “यदि बाल्यकालात् एव गृहेषु संस्कृतस्य वातावरणं निर्मीयते, श्लोकाः, गीतानि, संभाषणं च संस्कृतेः नियमितं प्रयोगः गृहेषु दृश्यते, तर्हि दीर्घकालिकेन प्रभावेन संस्कारयुक्तः समाजः निर्मातुं शक्यते।कार्यक्रमस्य विशेषसत्रे पूर्वविस्तारकः विशालप्रसादभट्टः उपस्थितानां प्रतिभागिनां कृते संस्कृतसंभाषणस्य प्रशिक्षणं दत्तवान्। डॉ आनन्दमोहनजोशी सरलपद्धत्याः माध्यमेन संस्कृतगीते दैनिकवार्तालापस्य प्रयोगं अपि दर्शितवान्।अतिथिपरिचयः खण्डसंयोजकेन नीतीशमैठाणिना कृतः। धन्यवादज्ञापनं सहखण्डसंयोजिका डॉ. बीना पुरोहिता रायपुरखंड सहसंयोजिका समस्तवक्तॄन्, विद्यार्थिगणान्, अतिथीन् च प्रति आभारं व्यक्तवती।
कार्यक्रमस्य सञ्चालनं सम्पर्कप्रमुखः धीरजमैठाणी कृतवान्। संचालनावसरे सः संस्कृतप्रचारस्य विविधयोजनानां विषये अपि जानकारीं दत्तवान्। समापनसमये छात्रसंयोजिका कनिकाघिल्डियालः शान्तिमन्त्रेण कार्यक्रमस्य समापनं कृतवती।
अस्मिन् अवसरे कृष्णा, मनीषा, पूनम, मनु यादव, खुशबू थापा, कार्तिक मिश्रः, अञ्जू, सुनीता नेगी, अञ्जली, प्रभा पुरोहिता, विनीता इत्येवं बहवः छात्राः, शिक्षकगणः, सामाजिककार्यकर्तारः, संस्कृतप्रेमिणः नागरिकाः च प्रेम्णा उपस्थिताः आसन्।संस्कृतभारती-देहरादूनस्य पदाधिकारिणः समस्तसंस्कृतप्रेमिभ्यः, विद्वज्जनभ्यः, नागरिकेभ्यश्च ससौजन्यम् आवाहनं कुर्वन्ति यत् ते आगामिषु आयोजनेषु अपि सपरिवारं सहभागित्वं कुर्वन्तु, संस्कृतभाषायाः नवजागरणे च सक्रियं योगदानं ददतु।
एषः कार्यक्रमः स्वलक्ष्ये सफलः जातः च, प्रदेशे संस्कृतभाषायाः, साहित्यस्य, संस्कृतेः च विषये नवचेतनायाः, नवोत्साहस्य च सञ्चारकः सिद्धः अभवत्।