कुरुक्षेत्रविश्वविद्यालयस्य प्राच्यविद्यासंस्थाने दशदिवसीया पाण्डुलिपिप्रशिक्षणकार्यशाला सम्पन्ना।
भारतस्य सर्वमपि ज्ञानं प्राचीनपाण्डुलिपिषु विद्यमानम् अस्ति।
भारतसर्वकारस्य प्रयत्नेन अधुना पाण्डुलिपिम् आधृत्य सर्वत्रापि अनुसंधानकार्यं प्रचलति। अस्यामेव धारायां केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशी इति योजनायां कुरुक्षेत्रविश्वविद्यालये दशदिवसीया पाण्डुलिपिप्रशिक्षणकार्यशाला आयोजिता। कार्यशालायाः आयोजनं प्राच्यविद्यासंस्थानस्य एवं पालिप्राकृतसंस्कृतविभागस्य संयुक्ततत्वाधाने अभवत्।
अस्यां कार्यशालायां पञ्चविंशतिः प्रतिभागिनःभागम् अवहन्। सर्वे प्रतिभागिनः काशीकांगडीकुरुक्षेत्रविश्वविद्यालयानां शोधच्छात्राः प्राध्यापकाः चासन् ।प्रथमदिवसे विश्वविद्यालयस्य कुलसचिवेन डॉ वीरेन्द्रपालमहोदयेन दीप्रज्वलनं विधाय कार्यशालायाःउद्घाटनं कृतम्।संस्थानस्य निदेशिका प्रो.कृष्णादेवी महोदया कार्यशालायाः भूमिकां कथयन्ती अतिथिभ्यः स्वागतकुसुमानि अप्रकट्यत्। आदौ प्रथमः प्रशिक्षकः डॉ कीर्तिकान्तशर्मा प्राचीनलिपीनाम् इतिहासं विकासक्रमं च वर्णयन् सर्वप्राचीनां ब्राह्मीलिपिम् अपाठयत्।महोदयः ब्राह्मीलिपेः वर्णमालां, संयुक्ताक्षराणि वाक्यरचनाञ्च अबोधयत्।द्वितीयतृतीयदिवसयोः डॉ प्रियंकरमिश्रः शारदालिपिम् अपाठयत्।चतुर्थदिवसे सर्वे प्रतिभागिनः पाण्डुलिपिकेन्द्रे प्राचीनग्रन्थानाम् अवलोकनम् अकुर्वन्। अग्रिमपञ्चदिनेषु प्रशिक्षकरूपेण लिपिविशेषज्ञौ डॉ सुरेन्द्रशर्मा डॉ जयप्रकाशशर्मा च प्रशिक्षणम् अयच्छताम्। आदौ ताभ्यां सूचीकरणं,संग्रहकरणं संरक्षणं च महता विस्तरेण बोधितम्। ततः देवनागर्यां सम्पादनकार्यं कथं विधेयमिति बोधितम्।अष्टमनवमदिवसयोः पाण्डुलिपिं स्वीकृत्य शोधकार्यस्य विधिः उक्तः।
सुप्रसिद्धानां पाण्डलिपिग्रन्थानां परिचयः अपि कारितः।
अन्तिमदिवसे सर्वे प्रतिभागिनः ब्राह्मीलिप्यां प्रस्तुतीकरणम् अकुर्वन्।
संस्कृतविभागस्य पूर्वविभागाध्यक्षेण डॉ ललितकुमारगौडेन मुख्यभाषणं प्रस्तुतम् ।कार्यक्रमस्य संयोजकः डॉ विनोदकुमारशर्मा सर्वेभ्यः कृतज्ञताम् अप्रकट्यत्। प्रो कृष्णादेवी सर्वेभ्यः प्रतिभागिभ्यः प्रमाणपत्राणि अयच्छत्।
अस्मिन् कार्यक्रमे डॉ विजयश्रीः, डॉ तेलुरामः, डॉ कृष्णः आर्यः चोपस्थिताः अभवन्।
कुरुक्षेत्रविश्वविद्यालयस्य प्राच्यविद्यासंस्थाने दशदिवसीया पाण्डुलिपिप्रशिक्षणकार्यशाला सम्पन्ना
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment