गीतानिकेतन-आवासीयविद्यालये सवैभवं सुसम्पन्नः संस्कृतसप्ताहः
हिमसंस्कृतवार्ताः। विद्याभारत्या सञ्चाल्यमाने कुरुक्षेत्रस्थे गीतानिकेतन-आवासीयविद्यालये संस्कृतसप्ताहस्य भव्यम् आयोजनम् अभवत्। संस्कृतसप्ताहस्य उद्घाटनं चतुर्थदिनाङ्के कुरुक्षेत्रविश्वविद्यालयस्य संस्कृतप्राध्यापकेन श्रीमता रामचन्द्रवर्येण कृतम् ।महोदयेन भाषितं यत् अस्माकं संस्कृतिः चिरप्राचीना अस्ति,अनया संस्कृत्या सह संयोगार्थं संस्कृतभाषा सेतुवत् कार्यं विदधाति।
ततः प्रभृतिः छात्रैःप्रतिदिनं वन्दनासभायां मङ्गलाचरणं,संवादः,नाटकं,गीतगानं,श्लोकोच्चारणं,सूक्तिलेखनं,भाषणम् ,प्रश्नमञ्चः,ध्येयवाक्यानि इत्यादयः गतिविधयः प्रस्तुताः। अष्टमदिनाङ्के संस्कृतसप्ताहस्य समारोपे विद्यार्थिभिः संस्कृतनृत्यं, समूहगानं,सम्भाषणं,वैदिकमन्त्रपाठः इत्यादि प्रस्तुतम् ।विद्यालयस्य प्राचार्यः श्रीनारायणसिंहः छात्रान् प्रति अकथयत् यत् इयं संस्कृतभाषा सकलस्य ज्ञानविज्ञानस्य आधारः अस्ति,अस्यामेव भाषायां सर्वाण्यपि जीवनमूल्यानि विद्यन्ते।संस्कृतपठनेन न केवलं मानवस्य अपितु अस्य जगतः अपि प्रगतिः सम्भवति। संस्कृतसप्ताहम् उपलक्ष्य आयोजितेषु गतिविधिषु श्रेष्ठप्रदर्शनं कृतवद्भ्यः छात्रेभ्यः पारितोषिकाणि प्रदत्तानि। शान्तिमन्त्रेण कार्यक्रमोऽयं पूर्णताम् अवाप्तः।
गीतानिकेतन-आवासीयविद्यालये सवैभवं सुसम्पन्नः संस्कृतसप्ताहः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment