डाइट-नीमचं द्वारा संस्कृतसप्ताहस्य आयोजनम्
वार्ताहर:- जगदीश डाभी
दिनाङ्क ६ तः आरभ्य १२ दिनाङ्कपर्यन्तं डाइट्-नीमचं संस्थया संस्कृतसप्ताहस्य समारम्भः कृतः, यः सम्पूर्णे भारतवर्षे हर्षोल्लासेन आयोज्यते। अस्य आयोजनस्य घोषणा स्वर्गीयः प्रधानमन्त्री श्रीमान् अटलबिहारीवाजपेयी महोदयेन संवत्सरे 2001 तमे कृतवन्तः। तदैव प्रभृति देशे सर्वत्र संस्कृतवर्षं च संस्कृतसप्ताहः च आयोज्यते।श्रावणपूर्णिमायाः दिने ‘संस्कृतदिवसः’ इति निर्णयः अपि भारतस्य तदा प्रधानमन्त्री स्वर्गीया श्रीमती इन्दिरा गान्धी महोदयया 1969 तमे वर्षे कृतः। तस्यानुसारं जिलाशिक्षणप्रशिक्षणसंस्थायाम् नीमच् नगरे अपि संस्कृतसप्ताहस्य आयोज्यते स्म।प्रथमदिने D.El.Ed. पाठ्यक्रमे अध्ययनशीलाः सर्वे छात्राः तिलकं कृत्वा सर्वान् प्रति संस्कृतसप्ताहस्य हार्दिकशुभकामनाः समर्पितवन्तः। द्वितीयदिने कार्यक्रमस्य आरम्भः द्वितीयवर्षस्य छात्रा सुहानी बैराग्यया सरस्वतीवन्दनया कृतः। ततः परम् उपस्थितैः अतिथिभिः सरस्वत्याः मूर्तेः माल्यार्पणं कृतम्। तदनन्तरं ग्रन्थपूजनं च समूहमार्गेण सम्पन्नम्। ततः संस्कृतसेवी श्री दिग्विजय पालीवालेन संस्कृतविषये प्रास्ताविकं भाषणं समर्पितम्। तेने संस्कृतभाषायाः महत्त्वं, आकर्षणं च संक्षेपेण निर्दिष्टम्। रक्षाबन्धनस्य दिनं श्रावणीपूर्णिमा इति स्मारयित्वा, तेन समस्तैः स्वगृहेषु अपि संस्कृतभाषायाः प्रयोगः करणीयः इति आग्रहः कृतः। तेन श्रीमद्भगवद्गीतायाः द्वादश अध्यायस्य अर्थभावसहितं सामूहिकपाठनं अपि कारितम्। मुख्यअतिथिरूपेण श्री अनिलसिंह सिसोदिया, संस्कृतप्रेमी, समाजसेवी च बजरंगदलस्य जिलासहसंयोजकः, छात्रान् प्रति संस्कृतस्य, संस्कृतेः च शक्तिपूजनाय प्रेरणा दत्तवान्। तेन शास्त्रशिक्षायाः शस्त्रशिक्षायाः च भारतवर्षे समानं महत्त्वं इति उद्धोषितम्।तेन एव उक्तं यत् विवेकपूर्वकं धर्मरक्षणं करणीयम्, संस्कृतभाषायाः माध्यमेन एव एतत् साध्यम्। इतिहासे प्रसिद्धानां वीर-वीराङ्गनानां चरित्राणाम् अध्ययनं अपि करणीयम्। कार्यक्रमस्य अध्यक्षतां सुश्री वर्षा भारती, हिन्दीविषयव्याख्यात्र्याः, कृतवत्याः। तया संस्कृतभाषायाः महत्त्वं विस्तारतः प्रदर्शितम्।पुस्तकज्ञानभण्डारप्रभारी श्री मुकेश पाटीदार अपि स्वविचारान् प्रकटयन्, सर्वेभ्यः संस्कृताध्ययनस्य आग्रहं कृतवान्। तेन उक्तं यत् किंचित् प्रयत्नं कुर्वन्तः वयं सहजतया संस्कृतं वदितुं शक्नुमः। कार्यक्रमस्य समापनकाले गीता-आरती, जयघोषश्च सर्वैः कृतः। कार्यक्रमस्य संचालनम् सांस्कृतिकगतिविधिप्रभारी श्रीमती इन्दिरालुहारेन् कृतम्।आभारप्रदर्शनं विज्ञानविषयव्याख्यात्र्या श्रीमती गायत्रीसापेडिया कृतम्। अस्मिन् आयोजनसत्रे समस्ताधिकारी-कर्मचारी-छात्रछात्राः च उपस्थिताः आसन्।