संस्कृतभाषा केवलं भाषा नास्ति, अपि तु भारतीयसंस्कृतेः जीवत्स्वरूपा अस्ति-डॉ बिपिनकुमारझा
– उत्तरप्रदेश-संस्कृतसंथानम्-संस्कृत सप्ताह समारोहः
उत्तरप्रदेश-संस्कृत-संस्थाने ०६ अगस्त २०२५ तमे दिनाङ्के संस्कृतसप्ताहस्य सन्दर्भे एकं गरिमायुक्तं कार्यक्रमं सुसम्पन्नम्। अस्मिन् आयोजने संस्कृतभाषायाः संरक्षणं, संवर्धनं च लक्षीकृत्य विविधाः बौद्धिक-सांस्कृतिक-क्रियाः सम्यक् रीत्या आयोजिताः। विशेषरूपेण आयोजिते अस्मिन् कार्यक्रमे ‘संस्कृत-सामान्य-ज्ञान-प्रतियोगिता’ तथा ‘संस्कृत-वाचन-प्रतियोगिता’ इत्येते प्रमुखरूपेण समाविष्टे। एतेषां प्रतियोगिनां निर्णायक-रूपेण डॉ॰ बिपिनकुमारझा (संस्कृत-वैदिक-अध्ययन-विभागः, BBAU लखनऊ) महोदयेन उत्तरदायित्वनिर्वहणं कृतवान्। तेन सह निर्णायकद्वम् आसीत् – श्रीमयंकतिवारी श्रीमतीमाण्डवी च – एभिः उच्चारणम्, शुद्धता, भावाभिव्यक्तिः च प्रस्तुतिकरणं च इत्याधारितं सम्यक् एवं निष्पक्षं मूल्याङ्कनं विहितम्।
अस्य कार्यक्रमस्य मुख्य-संयोजिका डॉ॰ सरिताश्रीवास्तवमहोदया आसीत्, या सम्पूर्णस्य आयोजनस्य रचना, समन्वयः, संचालनञ्च अत्युत्साहेन समारब्धवती। संस्थानस्य मुख्य-कार्याधिकारी डॉ॰ जगदानन्दझा महोदयेन अपि आयोजनस्य सफलतायै शुभाशंसनं प्रदत्तम्। कार्यक्रमे मण्डलस्तरे विद्यमानानां विभिन्नविद्यालय-महाविद्यालय-विश्वविद्यालयानां छात्रछात्राः, अध्यापकगणः, च उत्साहेन सहभागित्वमवाप्तवन्तः। प्रतिभागिषु संस्कृतभाषां प्रति विशेषः अनुरागः, समर्पणञ्च दृष्टिगोचरम् अभवत्। कार्यक्रमस्य समापनं विजेतृभ्यः प्रमाणपत्राणि स्मृतिचिह्नानि च प्रदानं कृत्वा सुसम्पन्नम्। डॉ॰ बिपिनकुमारझा महोदयेन स्ववक्तव्ये छात्रान् संस्कृतपठनाय प्रेरयन् अवदत्—”संस्कृतभाषा केवलं भाषा नास्ति, अपि तु भारतीयसंस्कृतेः जीवत्स्वरूपा अस्ति। एषा भाषा आत्मगौरवं, राष्ट्रस्य च सांस्कृतिकवैभवं बिभर्ति।” एवं प्रकारेण आयोजिता एषा संस्कृतसप्ताहोत्सवपङ्क्तिः न केवलं भाषासम्बद्धचेतनाम् उद्बोधितवती , अपि तु यूनां कृते संस्कृतभाषायाः नवीनदृष्टिं समर्पणञ्च प्रवाहितवती ।