सर्वहितकारी विद्यामन्दिरतलवाडानगरे संस्कृतसप्ताहस्य उद्घाटनम्
अगस्तमासस्य ६ दिनाङ्के सर्वहितकारी विद्यामन्दिरतलवाडानगरे संस्कृतसप्ताहस्य उद्घाटनम् अभवत्। अस्मिन् अवसरे संस्कृतपरिषदः सर्वे विभागप्रमुखाः सदस्याः च दीपप्रज्वलनेन कार्यक्रमस्य आरम्भं कृतवन्तः। आशिता भगिनी मञ्चस्य संचालनं कृतवती। भगिन्या भावनायाः मंगलाचरण- श्लोकपाठस्य अनन्तरं संस्कृतपरिषदः प्रमुखः आचार्य कपिलशर्मा सर्वान् सम्बोधयन् संस्कृतस्य अध्ययनं किमर्थम् इति अवदत्। सः अवदत् यत् संस्कृतभाषायाः अध्ययनमेव आत्मसाक्षात्कारस्य साधनम् अस्ति।
सर्वहितकारी विद्यामन्दिरतलवाडानगरे संस्कृतसप्ताहस्य उद्घाटनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment