संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ाक्षेत्रे संस्कृतसप्ताहस्य आरम्भः जातः
हिमसंस्कृतवार्ता: – जगदीश डाभी, उज्जयिनी। संस्कृतभारती उज्जयिनीद्वारा अद्य संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ाक्षेत्रे संस्कृत- सप्ताहस्य आरम्भः जातः। सर्वप्रथमं संस्कृति- वैदिक गुरुकुलं, श्रीगर्गाचार्य- वैदिक- विद्यापीठस्य छात्राः वेदाचार्याः कार्यकर्तारः शोभायात्रायां संस्कृत- उद्घोषं कृत्वा रामघट्टक्षेत्रे रामानुज- कोट- आश्रमे सम्मिलिताः अभवन्। संस्कृतभारती उज्जयिनी विभागसंयोजकः धर्मदासः वैरागी, विभाग सह- संयोजकः अपूर्वपौराणिकः, जिलाध्यक्षः रमेश नागरः महानगरमन्त्री सुभाष कुमावतः महाविद्यालयप्रमुखः राघवेन्द्र, विशाल गोस्वामी सामाजिकजनाः च उपस्थिताः आसन्।
संस्कृतसप्ताहस्य अवसरे दत्त अखाड़ाक्षेत्रे संस्कृतसप्ताहस्य आरम्भः जातः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
