उत्तराखण्ड आयुर्वेद-विश्वविद्यालये सम्पन्नः संस्कृत-सप्ताहोत्सवः”
हिमसंस्कृतवार्ता:- हर्रावाला, देहरादूनम्। उत्तराखण्डराज्ये हर्रावालायाः आयुर्वेद-विश्वविद्यालयस्य मुख्यपरिसरे संस्कृतदिवसम् उपलक्ष्य संस्कृतसप्ताहस्य प्रथमे दिने विशेषः कार्यक्रमः आयोजितः। अस्य शुभारम्भः उपपरिसरनिदेशकेन डॉ. नन्दकुमारदाधीचेन, डॉ. एस. पी. सिंहेन, डॉ. अमिततमादड्डिना, डॉ. इला तन्नया, डॉ. प्रदीपसेमवालेन डॉ. ऋषि आर्येण च दीपप्रज्वलनेन कृतः। प्रास्ताविकं भाषणं कुर्वन् डॉ. प्रदीप सेमवालः अवदत् संस्कृतं भारतस्य प्राणभूता भाषा अस्ति। एषा जन्मतः मृत्युपर्यन्तं जीवनयापनस्य कला शिक्षयति। भारतस्य विश्वगुरुत्वं संस्कृतभाषा- साहित्ययोः कृते एव अभवत्। अद्य विश्वस्मिन् शान्त्याः स्थापनाय संस्कृतग्रन्थेषु निहितं ज्ञानं परमोपयोगि अस्ति। तत्पश्चात् डॉ. राजीव कुरेलेमहोदयेन उक्तं यत् संस्कृतस्य उच्चारणेन मनसः आत्मनश्च सशक्तता वर्धते। शुद्धम् उच्चारणं भाषायाः महत्त्वं प्रकाशयति। संस्कृतसाहित्ये निहितं ज्ञानं मानवीयानां मूल्यानां विकासकं भवति। डॉ. अमित तमादड्डिः स्ववक्तव्ये अवदद्यद् भाषा अभिव्यक्तेः माध्यमः अस्ति। संस्कृतं भाषाणां भाषा अस्ति। अस्माभिः स्वभाषायां गौरवम् अनुभाव्यम्। डॉ. इला तन्नया अवदतद्यत् संस्कृतं अस्माकं सांस्कृतिको निक्षेपोऽस्ति। अस्य संरक्षणं प्रतिगृहम् आवश्यकम्। भाषा केवलं भाषया एव पठनीया, तदा एव तस्याः यथार्थं महत्त्वं प्रकटीभवति। संस्कृतं जनभाषां कर्तुं वयं सर्वे प्रयासं कुर्मः। तया सुमधुरं संस्कृतगीतम् अपि गीतम्। अध्यक्षीयभाषणं कुर्वन् डा. नन्दकिशोर दाधीचमहोदयः अवदत् यत् संस्कृतं ज्ञानविज्ञानयोः भाषा अस्ति। अद्यतनयुगे कृत्रिमबुद्धेः (AI) क्षेत्रे अपि एषा भाषा श्रेष्ठा। संस्कारसम्पन्नजीवनाय अस्या अध्ययनं आवश्यकम्। कार्यक्रमे पूर्वं विश्वविद्यालयस्य छात्राभिः छात्रैश्च विविधाः संस्कृत-सांस्कृतिकाः प्रस्तुतयः अपि समर्पिताः। सरस्वतीवन्दनां सृष्टि चौहानः, आयुषी, खुशी सिंह, सिमरन, मेघा, प्रीति डिमरी, शैलजा। धन्वन्तरिवन्दनां माधवी, निदा, कमल, अमन, सत्यम्, अभय, शिवा, विक्रमः, सदानः। स्वागतगीतं प्रिया, गीता, चक्षुः, अंशुलः, आयुषः, उवेशः। संस्कृतगीतानि खुशी पुरोहितः, अंकिता लमगड़िया, दीक्षा बुडलाकोटी, सुभाषितगानं महक, शिवाङ्गी भारती, शिवाङ्गी सिंग्हल, सादिया, संस्कृतनृत्यं श्रद्धा, नाटकम् “पर्यावरणं रक्षत” नौशीन मदीहा, तनीशा, प्रेरणा, एकता, भूमिका, ऋषभः, अक्षयः। मञ्चसंचालनं खुशी ढौंडियाल, दीक्षा च अकुर्वन्। अस्मिन् कार्यक्रमे विश्वविद्यालयस्य सर्वे विभागाध्यक्षाः, अध्यापकवर्गः, छात्रवर्गः, कर्मचारिवर्गश्च उत्साहेन सहभागिनोऽभवन्।
उत्तराखण्ड आयुर्वेद-विश्वविद्यालये सम्पन्नः संस्कृत-सप्ताहोत्सवः”
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment