मालिनीवैलीशिक्षामहाविद्यालयेन कृत: संस्कृतसप्ताहस्य शुभारम्भ: , प्राध्यापकै: कृतं संस्कृतसम्भाषणम्
कोटद्वारम्। संस्कृतसप्ताहमुपलक्ष्य संस्कृतभारत्याः कोटद्वारशाखायाः मालिनीवैलीमहाविद्यालयस्य च संयुक्ताश्रयेण बुधवासरात् एकं साप्ताहिकं संस्कृतसम्भाषणशिविरं भाषाकार्यशालाया: अन्तर्गतं प्रारभत।अस्मिन्नवसरे नगराध्यक्षः विद्वान् कुकरेतिरमाकान्तमहाभागः शिक्षक: मैन्दोलाकुलदीपमहाभागः प्राचार्या च नेगीसंगीतामहाभागा मुख्यातिथिरूपेण समुपस्थिताः आसन्। अपि च कालामनमोहनः नौटियालसत्यनारायणः गौडदीपकः रावतश्वेता जोशीप्रभा नेगीहेमलता बिष्टनीलम रावतबीना सुन्द्रीयालमुकेशः ध्यानीपङ्कजः नैथानीतेन्द्रः आञ्चलबिष्ट: प्रियङ्का चेत्यादयोऽन्येऽपि विद्वांसः शिक्षाविदश्च कार्यक्रमेऽस्मिन् स्वोपस्थित्या शोभामवर्धयन्। तत्र प्रास्ताविकं भाषणं प्रकुर्वन् मैन्दोलाकुलदीपमहाभागोऽवोचत् यत् संस्कृतशब्दानां कोषे न कापि न्यूनता विद्यते । अस्या भाषायाः धातुमूलकत्वात् नवनवानां शब्दानां निर्माणेऽस्याः शक्तिरद्वितीयास्ति । गौडदीपकस्तु सरलतयाऽकथयत् यथा वयमन्या भाषाः शिक्षामहे तथैव गीर्वाणवाणीमपि अवश्यमेव पठनीयम्। नौटियालसत्यनारायणमहाभागेनोक्तम् यत् सकलानि शास्त्राणि दर्शनानि च संस्कृतेनैव निबद्धानि सन्ति । अतः तेषां ज्ञानार्थं संस्कृतस्य ज्ञानमावश्यकमेव।नगराध्यक्षः कुकरेतिरमाकान्तमहाशयः स्वानुभवं वर्णयन् प्रत्यपादयत् यद् वयं दैनन्दिनव्यवहारेऽपि बहून् संस्कृतशब्दान् प्रयुञ्ज्महे किन्तु सम्भाषणस्य अभ्यासाभावात् तत् न जानीमहे । अभ्यासेन त्वेतत् करतलामलकवत् स्पष्टं भविष्यति कालामनमोहनमहोदयस्य मतमासीत् यद् याः सूक्तीः वयं पठामः शृणुमश्च ताः सर्वाः अस्माकं शास्त्रसागरेभ्यः उद्धृताः अमूल्याः रत्नकणिका एव सन्ति अन्ते प्राचार्या नेगीसंगीतामहाभागाऽवदत् यत् संस्कृतभाषा भारतस्य संस्कृतेः परम्परायाश्च आधारशिला वर्तते। कार्यक्रमेऽस्मिन् बिष्टआञ्चलभगिन्या ध्येयमन्त्रः सम्भाषणाभ्यासश्च कारितः । ध्यानीपङ्कजमहोदयेन सर्वेषामतिथीनां स्वागतमभिनन्दनं च व्यधायि । कार्यक्रमस्य कुशलं सञ्चालनं तु रावतश्वेतया कृतम् अस्यां कार्यशालायां सर्वे छात्राः शिक्षकाश्च मिलित्वा आङ्ग्लहिन्दीभाषयोः साहाय्येन संस्कृतसम्भाषणस्य अभ्यासं कुर्वन्तः सन्ति । इदं शिविरम् अगस्तमासस्य द्वादशदिनाङ्कपर्यन्तं प्रचलिष्यति एवमेव नगरस्य अन्येषु योगकेन्द्रेषु अपि कण्डवालराकेशमहाभागस्य निर्देशने रावतसन्तोषी रावतसोनम् कण्डवालसार्थकः कण्डवालकविता राणापूजा रावतशुभम् इत्यादयः प्रशिक्षकाः छात्रैः सह भगवद्गीतायाः श्लोकानां मन्त्राणां च सस्वरपाठस्य अभ्यासं कारयन्ति
मालिनीवैलीशिक्षामहाविद्यालयेन कृत: संस्कृतसप्ताहस्य शुभारम्भ: , प्राध्यापकै: कृतं संस्कृतसम्भाषणम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment