प्रचण्डवृष्टिः- मलानानालायां जलप्लावनेन द्वौ पादसेतू, बहूनि वाहनानि, ४०४ मार्गाः अवरुद्धाः, ऊना-चम्बयो: अपि विनाशः अभवत्
हिमसंस्कृतवार्ता: – कार्यालयीय: प्रतिनिधि:। गतदिने हिमाचलप्रदेशस्य अनेकेषु भागेषु प्रचण्डवृष्टिः अभवत् । अनेन अनेकस्थानेषु भूस्खलनं, जलप्रवाहः च अभवत् । शनिवासरस्य सायं यावत् राज्ये एकं राष्ट्रीयराजमार्गसहितं ४०४ मार्गाः अवरुद्धाः आसन्। ४११ विद्युत्परावर्तका:, १९६ जलापूर्तियोजना: अपि प्रभाविताः सन्ति । गतरात्रौ ऊनायां २२२.८ मिलीमीटर वृष्टिः अभवत्, या सामान्यापेक्षया बहु अधिका अस्ति। तथैव जोते १५७.८ मिलीमीटर, नङ्गलजलबन्धे १४५.०, बिलासपुरे १२०.८, भटियाते ९६.०, नादोन्नगरे ७३.६, सुजनपुरटीहरायां ६८.४, देहरागोपीपुरे ६७.२ मिलीमीटर वर्षा अभवत् । अपरपक्षे मण्डी-कुल्लू-मार्गस्य मध्ये स्थितस्य पण्डोह-जलबन्धस्य पुरतः कैञ्ची-मोड़स्थाने शनिवासरे प्रातः ४:०० वादने प्रचण्डभूस्खलनस्य कारणेन चण्डीगढ-मनाली-राष्ट्रियराजमार्गः पूर्णतया पिहित: अभवत्
मार्गे बृहत्शिलाः, मलिनावशेषं च पतितम्, येन राजमार्गस्य एकः भागः दुर्घटितः अभवत्, तस्य उपरि भेदनं अपि प्रादुर्भूतम् प्रायः पञ्चहोराणाम् अनन्तरं तत् गमनाय उद्घाटितम् । शुक्रवासरे अपि नवहोराणां परिश्रमस्य अनन्तरं राजमार्गस्य पुनर्स्थापनं कृतम्। शनिवासरे प्रातः पुनः अयं मार्गः शिलाभिः, मलिनावशेषै: च अवरुद्धः अभवत् । एतस्य भूस्खलनस्य कारणेन न केवलं राजमार्गे यातायातस्य पूर्णतया स्थगितता, अपितु कुल्लुतः नूरपुरं गच्छन् शववाहनम् अपि कैंची-मोड़स्य समीपे अटत् । चालकः रूपलालः अवदत् यत् सः प्रातः ४:०० वादनात् मार्गस्य उद्घाटनस्य प्रतीक्षां कुर्वन् आसीत्, एनएचएआइ-यन्त्राणि प्रातः ९:०० वादनस्य समीपे एव स्थानं प्राप्तवन्तः, मार्गः पुनः स्थापितः।
ऊनायां प्रचण्डवृष्टिः विनाशम् अकरोत्, सर्वत्र जलप्रवाह:
तस्मिन् एव काले शुक्रवासरे रात्रौ विलम्बेन वर्षायाः कारणेन ऊनाया: स्थितिः दुर्गता अभवत्। नगरस्य अनेकस्थानेषु जलप्रवाहः अभवत् । अस्मिन् काले डीएफओ-निवासस्थाने जलम् अपि प्रविष्टम् । एतदतिरिक्तं चण्डीगढ-धर्मशाला राष्ट्रियराजमार्गे अनेकस्थानेषु जलप्रवाहः आसीत् । एतादृश्यां परिस्थितौ चालकाः स्थानीया: आपणिका: च कष्टानां सम्मुखीकरणं कुर्वन्ति स्म। स्थितिः तादृशी अस्ति यत् मार्गेषु द्वि-त्रिपादमितं जलं सञ्चितम् आसीत् । समीपस्थस्य पतञ्जलिभण्डारस्य भित्तिपृष्ठतः गृहेषु १० पादपरिमितं जलं सञ्चितम् अस्ति । जनाः स्वप्राणान् रक्षितुं छदौ आरोहन्ति स्म ।
मलानानाला-प्लावितः, द्वौ पादसेतू, बहूनि यन्त्राणि, वाहनानि च प्रक्षालितानि
प्रचण्डवृष्ट्या मलानानालायां जलप्लावनम् अभवत् । अनेन क्षेत्रे बहु क्षतिः अभवत् । उपत्यकायाः मल जलविद्युत्कम्पनीद्वारा निर्मितः अस्थायीजलबन्धः आकस्मिकजलप्रलयेन क्षतिग्रस्तः अभवत् । एकः हाइड्रा, डम्परः, शिलाभङ्गकः, कैम्परः, कारयानम् च प्रक्षालितम् । उपायुक्तः कुल्लू तोरुल एस.रविशः अवदत् यत् अस्यां घटनायां कोऽपि प्राणहानिः न ज्ञाता। निरन्तरवृष्ट्या, आकस्मिकजलप्रलयस्य च कारणेन पार्वतीनद्याः जलस्तरः वर्धितः अस्ति । जलप्रलयकारणात् मलानाग्रामाय निर्मितः पादसेतुः प्रक्षालितः अस्ति तथा च तेन सह उपत्यकायाः पोहलग्रामं सम्बद्धः सेतुः अपि प्रक्षालितः अस्ति। उभयोः पादसेत्वो: प्रक्षालनकारणात् पोहलग्रामस्य निवासिनः ऐतिहासिकग्राममलानया सह सम्बन्धः च्छिन्नः अस्ति । तेन सह पोहल-बालाढी-आदि-ग्राम-जनानाम् अपि भूमिः क्षतिग्रस्ता अस्ति ।
पोङ्ग-जलबन्धस्य जलस्तरः संकटचिह्नस्य समीपे
निरन्तरवृष्ट्या शनिवासरे पोङ्गजलबन्धस्य जलस्तरः १३६२ पादपर्यन्तं अभवत् । अयं स्तरः १३६५ पादपर्यन्तं संकटचिह्नात् केवलं त्रिपाद: अधः अस्ति । एतादृशे सति जलबन्धप्रबन्धनं कदापि जलं मुक्तं कर्तुं शक्नोति । जलेन अधः क्षेत्रेषु विनाशः भवितुम् अर्हति । स्थितिं दृष्ट्वा प्रशासनेन निम्नक्षेत्रेषु निवसतां जनान् सजगः भवितुं निर्देशः दत्तः अस्ति तथा च आपदाप्रबन्धनसम्बद्धाः सर्वेऽपि दलानि सजगा: स्थापिताः सन्ति। बीबीएमबी जनान् इन्दौराया: जलबन्धस्य समीपे स्थितेषु क्षेत्रेषु लाउडस्पीकर-माध्यमेन सजगः भवितुम् आह्वयन्ति। इन्दौरायां मण्ड-मियानी-क्षेत्राणि जलबन्धात् निर्गतजलेन प्रभावितानि सन्ति । बीबीएमबी इत्यनेन पूर्वसूचनाप्रणाल्याः माध्यमेन जना: सचेतिता:। दशवादनस्य विवरणानुसारं जलस्तरः १३६२ पादतः उपरि प्राप्तः आसीत् । भाखड़ा-जलबन्ध-प्रबन्धन-मण्डलं सायरन-ध्वनिं कृत्वा जलबन्धसमीपस्थेषु ग्रामेषु जनान् सचेष्टयति।