अत्यधिकवृष्टेः सततप्रभावात् अमरनाथयात्रा सर्वथा निरुद्धा
हिमसंस्कृतवार्ताः। अत्यधिकवृष्टेः सततप्रभावात् समतलक्षेत्रेषु पर्वतेषु च विनाशः जायमानः अस्ति। आकाशात् प्रचण्डवृष्टिः भूमौ विनाशं जनयति । वर्षाकारणात् अनेकस्थानेषु मार्गाः भग्नाः अभवन् इति कारणेन अमरनाथयात्रा समयात् एकसप्ताहपूर्वं समाप्तुं प्रवृत्ता आसीत् । शनिवासरे प्रातःकाले जम्मू-कश्मीरस्य कथुआ-उधमपुर-नगरयोः प्रचण्डवृष्ट्या, भूस्खलनस्य च कारणेन द्वौ सेतू पतितौ, पञ्चसु गृहेषु दरारः अपि दृश्यन्ते। उत्तराखण्डस्य चमोलीनगरे जलविद्युत्परियोजनायाः भूस्खलनेन १२ श्रमिकाः घातिताः। हिमाचले चतुर्णां राष्ट्रियराजमार्गाणां सहितं ३८७ मार्गाः पिहिताः सन्ति । तस्मिन् एव काले पञ्जाब-राजस्थान-मध्यप्रदेशयोः जलप्रलयस्य कारणेन दुर्गतेः स्थितिः अस्ति। सेना राहत-उद्धार-कार्यक्रमं तीव्रं कृतवती अस्ति । कश्मीरस्य संभागीय आयुक्तः विजयकुमार बिधुरी इत्यनेन उक्तं यत् तीव्रवृष्ट्या श्री अमरनाथजीयात्रायाः, बालतालस्य, पहलगामस्य च द्वयोः मार्गयोः अत्यधिकाः क्षतिः अभवत्। अनेकस्थानेषु मार्गाः भग्नाः इति कारणेन यात्रा अगस्तमासस्य ३ दिनाङ्कपर्यन्तं स्थगिता आसीत् । परन्तु अधुना गम्भीरस्थितिं दृष्ट्वा यात्रा सर्वथा निरुद्धा अस्ति। पूर्वम् अस्याः यात्रायाः समाप्तिः अगस्तमासस्य ९ दिनाङ्के रक्षाबन्धनदिने भवितव्या आसीत् । सः अवदत् यत् अस्मिन् वर्षे ४.१० लक्षं भक्ताः बाबा बर्फानी इत्यस्य दर्शनं कृतवन्तः।
अत्यधिकवृष्टेः सततप्रभावात् अमरनाथयात्रा सर्वथा निरुद्धा
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
