केन्द्रीयक्रीडामन्त्रिणा शतरंजक्रीडिकायाः दिव्यादेशमुख इत्यस्याः अभिनन्दनं कृतम्
हिमसंस्कृतवार्ताः। केन्द्रीयक्रीडामन्त्री मनसुखमाण्डविया नवीदिल्लीनगरे शतरंजक्रीडिकायाः दिव्यादेशमुख इत्यस्याः अभिनन्दनं कृतवान्। अधुना एव दिव्यादेशमुखः फिडे महिलाशतरंजविश्वचषकप्रतियोगितायाः अन्तिमपक्षे विजयं प्राप्य भारतस्य ८८तमा ग्राण्डमास्टरः इति अभवत् । भारतीयशतरंजक्रीडिका दिव्या, दिग्गजा ग्राण्डमास्टर- कोनेरु हम्पी च सद्यैव जॉर्जियादेशे स्वस्य तेजस्वी प्रदर्शनेन देशस्य गौरवं कृतवन्तः। कोनेरु हम्पी इत्यस्मै अपि अभिनन्दनं कृतम् । सा आभासीरूपेण समारोहे उपस्थिता आसीत् । आयोजने डॉ मण्डविया दिव्यदेशमुखस्य कोनेरु हम्प्याः च प्रदर्शनस्य प्रशंसाम् अकरोत्, एतौ ग्राण्डमास्टरौ भविष्यत्पीढीं प्रेरयिष्यन्ति इति च अवदत्। सः अवदत् यत् इदानीं अधिकाः युवानः क्रीडायां विशेषतः शतरंजक्रीडायां रुचिं लप्स्यन्ते। अस्मिन् वर्षे अक्टोबर् मासे गोवानगरे FIDE पुरुषविश्वकपः २०२५ भविष्यति।
डॉ मण्डविया इत्यनेन उक्तं यत् महिलाशतरंजविश्वचषकस्य भारतस्य विजयः न केवलं भारतस्य क्रीडापराक्रमस्य प्रमाणम् अपितु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे निर्मितस्य सुदृढक्रीडाव्यवस्थायाः प्रकाशनं करोति। सः अवदत् यत् क्रीडाव्यवस्थायाः परिवर्तनार्थं सर्वकारेण अनेकानि पदानि गृहीतानि। डॉ मण्डविया इत्यनेन उक्तं यत् खेलो इण्डिया नीतिः अद्यैव घोषिता अस्ति तथा च क्रीडायां सुशासनं आनेतुं राष्ट्रियक्रीडाप्रशासनविधेयकस्य संसदि विचारः भविष्यति।
केन्द्रीयक्रीडामन्त्रिणा शतरंजक्रीडिकायाः दिव्यादेशमुख इत्यस्याः अभिनन्दनं कृतम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment