हिमसंस्कृतवार्ता: – राष्ट्रपतिः द्रौपदी-मुर्मू: आई.आई.टी.आई.एस.एम. धनबाद इत्यस्य स्रातकविद्यार्थिनः 2047 तमे वर्षे विकसित-भारतस्य लक्ष्यं साधयितुं उत्प्रेरकरूपेण कार्यं कर्तुं प्रार्थयत्। राष्ट्रपतिः द्रौपदी-मुर्मूवर्या झारखण्डस्य धनबाद-नगरे भारतीय-प्रौद्योगिकी संस्थानस्य-भारतीय-खनन-विद्यालयस्य (आई.आई.टी.आई.एस.एम.) इत्यस्य चतुःपञ्चाशत्तमे दीक्षान्त-समारोहे भागम् अभजत्। राष्ट्रपतिः तान्त्रिकसंस्थायाः स्थापनायाः शतस्य वैभवयुतवर्षाणां स्मरणार्थं विशिष्टं पोस्टल-स्टाम्प अपि प्रकाशितवती। संस्थायाः गौरवपूर्णस्य इतिहासस्य प्रशंसां कुर्वती राष्ट्रपतिः द्रौपदीमुर्मू इत्येषा उत्तीर्णान् छात्रान्, सरल-समाधानैः सह समस्यानां समाधानार्थं, संशोधनार्थं नवान्वेषणैः सह नूतन-प्रणालीं, प्रौद्योगिकीय-प्रगतिं च स्वीकर्तुं परामृष्टवती। सा अवोचत् यत् अत्याधुनिकप्रौद्योगिकीभिः सह बौद्धिक-अभियन्तृणां निर्माण आई. आई. टि. इत्यादिसंस्थाः महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति, अपि च मानवजातिं प्रति सर्वे करुणामयाः, संवेदनशीलाः, सहानुभूताः च भवेयुः । हरितभारतस्य निर्माण, राज्यस्य, देशस्य, विश्वस्य च कृते प्रकृत्याः किमपि हानिं विना सुस्थिर-उपायान् अन्वेष्टुं च स्वकीय-तान्त्रिक-कौशलं उपयोक्तुं सा छात्रान् प्राचारयत्। राष्ट्रपतिः अवदत् यत् भारतस्य बृहत्तमा शक्तिः तस्य विशाल-मानवसंसाधनानि सन्ति । राष्ट्रपत्तिः सामान्यजनानां जनजातीयजनानां च समस्यानां समाधानार्थं प्रौद्योगिकी-उपयोगेन जनजातीय-उत्कृष्टता-केन्द्रस्य स्थापनार्थं संस्थायाः प्रयत्नान् अपि प्राशंसत्। सा आदिवासिजनानां कृते नूतनप्रथाः प्रवर्तयितुं, डिजिटल्-शिक्षण-उपायान् प्रदातुं च संस्थानस्य दूरदृष्टि अपि प्राशंसयत्। तत्पूर्व राष्ट्रपतिः संस्थाने स्थापितस्य अटल-नवान्वेषणकेन्द्रे सामुदायिक-नवान्वेषणविषये आदिवासि-महिलाभिः प्रदर्शितं प्रदर्शनम् अपि दृष्टवती। दीक्षान्तसमारोहे केन्द्रीय-शिक्षा-मन्त्री धर्मेन्द्र-प्रधानः, राज्यपालः सन्तोष-गङ्गवारः, झारखण्ड-राज्यस्य उच्च-शिक्षा-मन्त्री सुदिव्य-कुमारः च उपस्थिताः आसन्।
राष्ट्रपतिः द्रौपदी-मुर्मू: आई.आई.टी.आई.एस.एम. धनबादे सम्प्राप्य छात्रान् प्रेरितवती
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
