Sanskrit News -संस्कृतविचारगोष्ठ्याः पूर्वसज्जतायै आयोजनसमित्या: उपवेशनम्
हिमसंस्कृतवार्ता: – जालन्धर:।
संस्कृतभाषायाः संवर्धनाय प्रचाराय च देशे विविधा: प्रयासाः निरन्तरं कुर्वन्ति। तेष्वेव सन्दर्भे संस्कृतभारती-पञ्जाब, केन्द्रीयसंस्कृतविश्वविद्यालयेन, च पञ्जाबीविश्वविद्यालयस्य संस्कृति एवं पालीविभागेन संयुक्ततया आयोज्यमाना संस्कृतविचारगोष्ठी महत्त्वपूर्णं योगदानं दास्यति। एषा गोष्ठी दिनाङ्के 19-20 अगस्त 2025 तिथौ पञ्जाबीविश्वविद्यालये पटियालायाम् आयोज्यते। अस्य आयोजनस्य पूर्वसज्जतार्थं एकदिवसीया पूर्वगोष्ठी संस्कृतभारती-जालन्धरजनपदस्य तत्त्वावधानेन पतञ्जलियोगग्रामे, टाण्डामार्गे, जलन्धरे आयोजिता।
पूर्वगोष्ठ्याः प्रमुखं उद्देश्यं आसीत्—गोष्ठी-सम्बन्धिनां कार्याणां पूर्वयोजना, अधिकाधिकजनसंपर्कः, निमन्त्रणपत्रवितरणम्, प्रचारप्रसारकार्ययोजना च। गोष्ठ्याः माध्यमेन पञ्जाबराज्ये संस्कृतभाषायाः वर्तमानदशा, शिक्षायाः प्रसारः, च नवचिन्तनदिशा इत्यादिषु विशदं मन्थनं करणीयम् इति लक्ष्यं स्थापितम्।
पूर्वगोष्ठ्याम् जालन्धरजनपदस्य विविधविद्यालय-महाविद्यालय-विश्वविद्यालयेषु कार्यरताः अध्यापकाः, संस्कृतप्रेमिणः, च दायित्वयुक्तकार्यकर्तारः अपि सपरिवारं उत्साहेन उपस्थिताः। सर्वे मिलित्वा गोष्ठ्याः सफलता-अर्थं योजनायाः निर्माणं कृतवन्तः। अस्मिन् सन्दर्भे निश्चयः कृतः यत् संस्कृतभाषायाः उत्थानाय, जागरणाय, च नवसन्तत्य: सहभागाय शिक्षणसंस्थाभ्यः, विद्यार्थिभ्यः, विद्वद्भ्यश्च आमन्त्रणं विधेयम्।
एषा पूर्वगोष्ठी न केवलं आयोजनोपयोगिनी आसीत्, अपितु भविष्ये आयोज्यमानायाः विचारगोष्ठ्याः दृढमूलं सशक्ताधारञ्च अपि सम्पादितवती। यत्र संस्कृतभारत्याः प्रान्ताध्यक्षः श्रीवीरेन्द्रशर्मा, प्रान्तसहमन्त्री श्रीअजयआर्य, प्रान्तप्रचारप्रमुखः श्रीभगवतीप्रसादः, विभागसंयोजकौ श्रीसर्वेशचड्ढा च श्रीओमनशर्मा, अन्ये च विद्वांसः, शिक्षिका-शिक्षकगणः, संस्कृतसेवकाः च विशेषरूपेण उपस्थिताः आसन्।