फिलिपिन्स देशस्य राष्ट्रपतिः अगस्तमासस्य चतुर्थदिनाङ्कात् भारतस्य पञ्चदिवसीयायां राजकीययात्रायां भविष्यति
हिमसंस्कृतवार्ता: – फिलिपिन्स देशस्य राष्ट्रपतिः फर्डिनेण्ड् आर मार्कोस् इत्येषः अगस्तमासस्य चतुर्थदिनाङ्कात् भारतस्य पञ्चदिवसीयायां राजकीययात्रायां भविष्यति। मार्कोस् इत्यनेन सह फिलिपीन्स देशस्य प्रथममहिला लुईस्-अरनेटा-मार्कोस्, तथा च उच्चस्तरीय-प्रतिनिधिमण्डलम् अपि आगमिष्यति यस्मिन् मन्त्रिमण्डलस्य अनेके मन्त्रिणः वरिष्ठाधिकारिणः च भविष्यन्ति। यात्रावधौ फिलिपिन्स् देशस्य राष्ट्रपतिः मार्कोस् इत्येषः प्रधानमन्त्री नरेन्द्रमोदी च अगस्तमासस्य पञ्चमे दिनाङ्के द्विपक्षीयोपवेशनं करिष्यतः। श्रीमार्कोसः राष्ट्रपतिपदासीनया द्रौपदीमुर्मु-वर्यया सहापि मेलनं विधास्यति । यात्रावधौ विदेशमन्त्री डॉ. एस. जयशंकरः राष्ट्रपतिमार्कोस् इत्यनेन सह मिलिष्यति। श्रीमार्कोसः बेङ्गलूरुनगरं अपि गमिष्यति, तत्पश्चात् अगस्तमासस्य अष्टमे दिनाङ्के स्वकीयदेशं प्रति गमिष्यति।
फिलिपिन्स देशस्य राष्ट्रपतिः अगस्तमासस्य चतुर्थदिनाङ्कात् भारतस्य पञ्चदिवसीयायां राजकीययात्रायां भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
