शिमलामण्डले १६ मीलदूरे मारहावग स्थाने निर्मितः भविष्यति हिमाचल-संस्कृत-अकादम्याः परिसरः
हिमसंस्कृतवार्ताः। हिमाचलसंस्कृताकादम्याः नवीनभवनस्य स्वप्नः साकारः भविष्यति। अस्मिन्विषये सूचयन् अकादम्याः पूर्वसचिवः डॉ.रामशर्मा उक्तवान् यत् अहं हिमाचलप्रदेशसर्वकाराय, केन्द्रसर्वकाराय च कृतज्ञः अस्मि येन सर्वाणि औपचारिकतानि सम्पन्नानि कृत्वा हिमाचलप्रदेशसंस्कृताकादम्याः कृते भूमेः आवंटनं कृतम्। अस्य भवनस्य निर्माणं शिमलामण्डले १६ मीलदूरे मारहावग स्थाने भवितुं गच्छति । तेन उक्तं यत् पूर्वमुख्यमन्त्री स्वर्गीय राजा वीरभद्रसिंहस्य स्वप्नं साकारं कर्तुं हिमाचलस्य लोकनिर्माणविभागस्य मन्त्रिणा विक्रमादित्यसिंहेन सह अनुरोधः क्रियते।
शिमलामण्डले १६ मीलदूरे मारहावग स्थाने निर्मितः भविष्यति हिमाचल-संस्कृत-अकादम्याः परिसरः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
