रूस-जापान-हवाई-देशानां केषुचित् भागेषु सुनामी-तरङ्गैः विनाशस्य सम्भावना
रूस-जापान-हवाई-देशानां केषुचित् भागेषु सुनामी-तरङ्गाः आगताः। रूसी-तटस्य समीपे विशाल-भूकम्पानन्तरम् अमेरिकासहितानां द्वादशाधिकेभ्यः देशेभ्यः संचेतनाः प्रकाशिताः सन्ति । गतदिने रूसस्य कामचाट्काद्वीप समूहे अष्ट दशमलव अष्ट तीव्रतायाः प्रबलः भूकम्पः आगतः, येन प्रशान्त महासागरे व्यापकरूपेण सुनामी-तरङ्गाः समुत्थिताः। प्रथमतरङ्गः भूकम्पस्य केवलं होरैककाले एव हवाई-देशं प्राप्तवान्। भूकम्पकारणेन सुनामीतरङ्गकारणेन च प्रभावितेषु क्षेत्रेषु हानिः अभवत्। यद्यपि यादृशं सुनामीतरङ्गस्य सङ्केतः आसीत्, तादृशः प्रभावः न अभवत्। सीमावर्तिषु क्षेत्रेषु जनाः प्रभाविताः सन्ति, केचन् जनाः व्रणिता सञ्जाताः।
रूस-जापान-हवाई-देशानां केषुचित् भागेषु सुनामी-तरङ्गैः विनाशः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
