राष्ट्रिय-शिक्षा-नीतिः भारते वैश्विकस्तरीयशिक्षायाः कृते मार्गदर्शनं विदधाति – शिक्षामंत्री धर्मेन्द्र प्रधानः ।
हिमसंस्कृतवार्ता: – शिक्षामंत्री धर्मेन्द्र प्रधानः अवदत् यत् राष्ट्रिय-शिक्षा-नीतिः (एन्. ई. पी.) 2020 विश्व-स्तरीय शिक्षां सार्वत्रिकरूपेण प्रवर्तयितुं परिकल्पित – दार्शनिक-संरचनायाः रूपेण कार्यं करोति, तथा च विकसित-भारतम् इति सङ्कल्पं साधयितुं सर्वाधिकं महत्त्वपूर्णं मार्गत्वेन वर्तते। नवदेहल्यां अखिल-भारतीय-शिक्षा-समागम-2025 इत्यस्य उद्घाटन सत्रे भाषमाणः, सः प्रतिपादितवान् यत् राष्ट्रिय-शिक्षा-नीतिः (एन्, ई. पी.) 2020 भारतीय-शिक्षा-व्यवस्थायां परिवर्तनशीलस्य पुनर्जागरणस्य प्रतिनिधित्वं करोति । सः अवोचत् यत् एन. ई. पी. 2020, राष्ट्रनिर्माणस्य हृदये शिक्षां स्थापयतः कालातीत-सभ्यताविषयक-लोकाचारस्य पुनरुत्थानं करोति। श्रीप्रधानः अवदत् यत् एषा नीतिः समग्रस्य, सर्वसमावेशकस्य, भविष्यस्य च कृते सज्जायाः शिक्षा-व्यवस्थायाः दृढम् आधारं स्थापयति । सः इतोऽपि अवधानं दत्तवान् यत् एन. ई. पी. 2020 शिक्षकाणां सशक्तीकरणं करोति, नवान्वेषणस्य पोषणं करोति, एकविंशतितमायां शताब्द्ययां वैश्विकनेतृत्वस्य कृते भारतस्य आकांक्षानाम् अनुरूपं च वर्तते।
राष्ट्रिय-शिक्षा-नीतिः भारते वैश्विकस्तरीयशिक्षायाः कृते मार्गदर्शनं विदधाति – शिक्षामंत्री धर्मेन्द्र प्रधानः ।
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
