प्रधानमंत्रिणा मोदिना सह अमिलत् जयरामठाकुरः, राज्ये आपद: क्षतिविषये सूचनां दत्तवान् सहयोगाय आग्रहं च कृतवान्
हिमसंस्कृतवार्ता:- नवदेहली। पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः सोमवासरे प्रातः प्रधानमन्त्रिणं नरेन्द्रमोदिनं मिलित्वा हिमाचलप्रदेशस्य आपदाप्रभावितक्षेत्रेषु क्षतिविषये सूचितवान्। प्रधानमन्त्रिणा आपदाकृतक्षतिविषये विस्तृतसूचनाः गृहीत्वा आपदाप्रभावितक्षेत्रेषु पुनर्निर्माणे पुनर्स्थापने च सर्वसम्भवसहकार्यस्य आश्वासनं दत्तवान्। जयरामठाकुरः अवदत् यत् वयं प्रधानमन्त्रिणं अवदाम यत् अस्याम् आपदि न केवलं जनानां गृहाणि अपि तु तेषां भूमिः अपि नष्टा, अधुना तेषां गृहनिर्माणार्थं स्थानं अपि नास्ति। एतादृशे सति ‘वनसंरक्षणविधाने’ तेभ्यः भूमिं दातुं उपशम: दातव्य: येन निराश्रयजनाः सुरक्षितस्थानेषु पुनः निवेशं कर्तुं शक्नुवन्ति। एतेन सह पुनर्वासार्थं पुनर्निर्माणार्थं च ‘क्षेत्रविशिष्ट’ आश्रयसंकुलं दातुं राज्ये पुनः पुनः प्राकृतिकविपदां कारणानाम् अध्ययनं कर्तुं च प्रधानमन्त्रिणा अनुरोधः अपि कृतः येन पुनः पुनः हानिः परिहर्तुं शक्यते। आपत्काले आश्रय- उद्धार- कार्ये यत्किमपि सम्भवं सहकार्यं प्रदातुं प्रधानमन्त्रिणः अपि धन्यवादं दत्तवान्। जयरामठाकुरः अवदत् यत् अस्याः आपद: कारणात् राज्यस्य १२०० कोटिरूप्यकाधिकं हानिः अभवत्। यस्मिन् केवलं सिराजविधानसभायां 1000 कोटिरूप्यकाधिकं हानिः अभवत्, यदा तु ३० जूनमासस्य तस्याः रात्रौ सिराज-करसोग-नाचन-क्षेत्रयोः कुलम् ४२ जनानां प्राणाः त्यक्ताः, केवलं सिराजतः २९ जनाः अपि अस्याः आपद: कालकवलिता: अभवन्। ५०० तः अधिकानि गृहाणि पूर्णतया प्रक्षालितानि, १००० गृहाणि च क्षतिग्रस्तानि ये जीवनाय योग्यानि न आसन्। तेन सह नाचन, करसोग, धर्मपुरे च महती क्षतिः अभवत्। धर्मपुरस्य स्याठीग्रामः पूर्णतया भूमौ ध्वस्तः अभवत्, जनाः मुक्तक्षेत्रे रात्रौ वसन्ति। अतः पुनर्वासार्थं पुनर्निर्माणार्थं च ‘क्षेत्रविशिष्टं’ आश्रयस्य प्रदातुं अनुरोधः अपि कृतः। राज्यस्य अनेकेषु क्षेत्रेषु प्राकृतिकविपद: पुनः पुनः भवन्ति इति सः अवदत्। अस्य कारणानां अध्ययनं कर्तुं प्रधानमन्त्रिणा अपि अनुरोधः कृतः यत् पुनः पुनः हानिः परिहर्तुं शक्यते। आपत्काले आश्रय-उद्धार-कार्यक्रमेषु सर्वं सम्भवं समर्थनं दत्तवान् इति प्रधानमन्त्रिणः अपि धन्यवादं दत्तवान्।
प्रधानमंत्रिणा मोदिना सह अमिलत् जयरामठाकुरः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
