हिमाचले बिजलीमहादेव- रज्जूमार्गस्य विरोधे मार्गेषु जनाक्रोश:
बिजलीमहादेव-रज्जूमार्गस्य विरोधे शुक्रवासरे जिलामुख्यालयस्य ढालपुरे मार्गे जनाक्रोशः आगतः। सम्पूर्णस्य खराहलस्य विभिन्नानां उपत्यकाणां जनाः प्रथमं रामशिलां प्राप्तवन्तः। ततः 11:30 वादने प्रायः शतशः जनाः सभारूपेण अग्रे गतवन्तः, बिजली महादेवस्य जय:, रज्जूमार्गं नैव कामये इति उद्घोषयन्तः अयं जनसम्मर्द: उपायुक्तस्य कार्यालयस्य बहिः 12:30 वादने अखाडाबाजारं, ब्यासावृत्तं, सर्वरी, लोअर ढालपुर मार्गेण प्राप्तः। तदनन्तरं जनाः अत्र आन्दोलने उपविष्टाः।
उपायुक्तकार्यालयस्य बहिः अपराह्णे २ वादनपर्यन्तं प्रदर्शनं प्रचलति स्म। आन्दोलनकारिणः सम्बोधयन् सामाजिक- धार्मिकसंस्थानां नेतारः अधिकारिणः च अवदन् यत् ते पूर्वं त्रिवारं रज्जुमार्गस्य विरुद्धं प्रदर्शनं कृतवन्तः, प्रशासनद्वारा राज्याय केन्द्रसर्वकाराय च प्रस्तावा: प्रेषिता:। परन्तु, एते प्रस्तावाः कुत्र गच्छन्ति इति कोऽपि न जानाति केन्द्रराज्यसर्वकाराभ्याम् उत्तरं न प्राप्यते।
रज्जुमार्गस्य निर्माणं कस्यापि परिस्थितौ न भविष्यति
पूर्वसांसद: एवं भगवत: रघुनाथस्य प्रमुखः यष्टिधारक: (छड़ीबरदार) महेश्वरसिंहः वरिष्ठनेता रामसिंह:, बिजलीमहादेवस्य कार्यकर्ता (कारदार) विनेन्द्र जम्बाल:, भगवत: रघुनाथस्य कार्यकर्ता (कारदार) दानवेन्द्रसिंह:, रज्जूमार्गसंघर्षसमित्या: अध्यक्ष: सुरेशनेगी, बिजलीमहादेवमंदिर-समित्या: कोषाध्यक्ष: फतेहसिंह: राणा, संघर्षसमित्या: अशपदाधिकारिण; पंचायतानां प्रतिनिधय:, पंचायत प्रधानसंजू पण्डित: इत्यैतै: उक्तं यत् बीजलीमहादेवस्य कृते रज्जुमार्गस्य निर्माणं कस्यापि परिस्थितौ न भविष्यति। एतदर्थं कस्मिन् अपि स्तरे विरोधमार्गः स्वीक्रियमाणः भवेत्।
हिमाचले बिजलीमहादेव- रज्जूमार्गस्य विरोधे मार्गेषु जनाक्रोश:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
