विपक्षनेता जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणं मिलित्वा, साहाय्यं याचितवान्
हिमसंस्कृतवार्ता: – नवदेहली। विपक्षस्य नेता जयरामठाकुरः हिमाचलप्रदेशस्य सर्वैः सांसदैः सह, आपदाप्रभावितक्षेत्रेभ्यः विधायकैः भाजपाप्रदेशाध्यक्षेण च सह केन्द्रीयवित्तमन्त्री निर्मलासीतारमण इत्यनया सह मिलित्वा आपद: हिमाचलप्रदेशस्य क्षतिविषये बोधयित्वा आपदाप्रभावितक्षेत्रेषु पुनर्निर्माणार्थं पुनर्वासार्थं च अधिकतमं आर्थिकसहायतां याचितवान्। जयरामठाकुरेण प्रस्तूयमाणे अभिलेखे हिमाचलप्रदेशे आपत्काले नष्टानां निजी-सर्वकारीय-सम्पत्त्याः हानिः इति विवरणं दृश्यते स्म । जयरामठाकुरः उक्तवान् यत् आपदाकारणात् मण्डीमण्डलस्य सराज, नाचन, करसोग, धर्मपुरम् इत्येतानि विधानसभाक्षेत्राणि तथा चम्बा इत्यस्य अनेकानि क्षेत्राणि दुर्घटितानि सन्ति। १२०० कोटिरूप्यकाधिकं धनहानिः अभवत्, ५० तः अधिकाः जनाः प्राणान् त्यक्तवन्तः । जूनमासस्य ३० दिनाङ्कस्य एव आपदि ४२ जनाः मृताः ।अस्याः आपद: कारणेन ७०० तः अधिकानि गृहाणि पूर्णतया नष्टानि अभवन् । १००० तः अधिकानि गृहाणि आंशिकरूपेण नष्टानि सन्ति किन्तु ते निवासयोग्याः न सन्ति । अस्याः आपद: कारणेन सहस्राधिकाः पशुशालाः, सहस्राधिकाः पशुधनानि अपि नष्टानि सन्ति । तेन सह जनानां कृषिभूमिः, सस्यानि इत्यादयः नष्टानि अभवन् । यस्मात् कारणात् तेषां आजीविका अपि अपहृता अस्ति। अतः आपदाग्रस्तानां जनानां कृते महत: समर्थनस्य आवश्यकता वर्तते। वित्तमन्त्री हिमाचलप्रदेशस्य सर्वथा साहाय्यं कर्तुं आश्वासनं अददत्। ज्ञातव्यं यत् जयरामठाकुरः विगतदिने एव भाजपादलस्य राष्ट्रियाध्यक्षेण जगतप्रकाशनड्डावर्येण, उक्तजनप्रतिनिधिभिः प्रदेशाध्यक्षेण च सह केन्द्रीयगृहमन्त्रिणा अमितशाहेन, केन्द्रीयमार्गपरिवहनमन्त्रिणा नितिनगडकरिणा, जलसंसाधनमन्त्रिणा सी.आर.पाटिलेन च मिलित्वा हिमाचलस्य अधिकतमसमर्थनस्य अनुरोधं कृतवान्।
विपक्षनेता जयरामठाकुरः केन्द्रीयवित्तमन्त्रिणं मिलित्वा, साहाय्यं याचितवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
